________________
स्याद्वादपुष्पकलिका
४१
[अनेकस्वभावविचारः] [१२४] अथानेकस्वभावाधिकारगाथाद्विकमाह[मूल] क्षेत्रकालसुभावानां गुणविभागयोगतः। भिन्नकार्यप्रवृत्तीनां भवेद्भिन्नप्रवाहकः॥९८॥
(व्याख्या) क्षेत्रेत्यादि। क्षेत्रमसङ्ख्यातप्रदेशरूपम्, कालस्तूत्पादव्ययस्वरूपः, भावपर्यायो गुणः। एतेषां प्रदेशादिगुणानां विभागस्वभावेन निजनिजभिन्नकार्यपरिणामिकोऽस्ति = सर्वेषां भिन्नप्रवाहो भवति। अतः सर्वकार्यभिन्नप्रवाहत्वादनेकस्वभावोऽस्ति सर्वस्वभावपर्यायभेदविचारणायामिति।
[एकानेकयो: परस्पराभावे दोषः] [१२५] अथैकानेकयोः परस्पराभावे दोषापत्तिरूपगाथामाह-द्रव्यैकेत्यादि। [मूल] द्रव्यैकभावाभावेन सामान्यविरहो भवेत्। तेष्वनेकाभावयोगाद्विशेषाभावकस्तथा॥९९॥
यदि द्रव्येष्वेकस्वभावाभावो मन्यते तदा सामान्यविरहो = अभावो भवति तदानेकपर्यायगुणानां स्वाम्याधारः कोऽस्ति आधेयो आधाराभावेन कुत्र तिष्ठति? ततो द्रव्येष्वेकस्वभावमनुभवामः। तथा द्रव्येष्वनेकस्वभावो न मन्यते तदा विशेषाभावः स्यात्तदानेकस्वभावप्राप्तिः कथं स्याद? अनेकाभावेन गुणा अनेकस्वभावं कथं परिणमन्ति? तथा शब्दे निजविषयव्याप्यव्यापकताभावोऽपि कथमस्ति? अतोऽनेकस्वभावो द्रव्येषु भवत्येवेति। द्रव्ये व्याप्ये निजगुणपर्यायाः व्यापकाः सन्ति।। इत्येकानेकस्वभावः॥९८॥९९॥
अस्तिनास्तिस्वभावविचारः। [१२६] अथास्तिनास्तिस्वभावविचारगाथामाह[मूल] स्वद्रव्यादिचतुष्केन व्याप्यव्यापकसंस्थितान्।
__ भावाद्भावान्तरो हेतुस्तद्रूपो वस्तुनो भवेत्॥१००॥ (व्याख्या) स्वद्रव्यादीत्यादि। निजद्रव्यक्षेत्रकालभावचतुष्केनेति चतुष्टयेन व्याप्यव्यापकसम्बन्धिस्थितानाम्। भावादित्यादि। स्वकीयपरिणामात्परिणामान्तरगमनहेतुः वस्तुनः तद्रूपतापरिणमनरूपोऽस्तिस्वभावः स्यादिति। द्रव्यगुणपर्यायाणाम् निजधर्मं विमुच्य धर्मान्तरपरिणमनाभावादिति॥१००॥
[१२७] अथ नास्तिस्वभावस्वरूपगाथाद्वयमाह[मूल] द्रव्याद्यपरजातीनां स्वद्रव्यादिचतुष्टये। सदा व्यवस्थितानां च द्रव्याद्यन्यविवक्षिते॥१०१॥ [मूल] सर्वदैवाविच्छिन्नानामन्यधर्मसमुच्चयाः।
व्यावृत्तिरूपो यो भावः प्रोच्यते नास्तिरूपकः॥१०२॥(युग्मम्) (व्याख्या) द्रव्यादित्यादि। द्रव्याद्यपरजातीनाम् = अन्यजातीयद्रव्याणामित्यर्थः। स्वद्रव्यादीत्यादि। निजगतद्रव्यादिचतुष्के सदा = निरन्तरं व्यवस्थितानाम्। द्रव्याद्यन्येत्यादि। परद्रव्यादिके विवक्षिते। सर्वेत्यादि। सर्वदा परगतधर्मसमुच्चयोऽविच्छिन्नस्वभावेन, तत्र द्रव्यादिको अभावेन भवति। अतो व्यावृत्तीति। अपरधर्माणां यो व्यावृत्तिरूपोऽभावः स द्रव्येषु नास्तिस्वभावः प्रोच्यते इति॥१०१॥१०२॥
[१२८] अत्रैतदर्थे दृष्टान्तमाह