________________
स्याद्वादपुष्पकलिका
र्भाव्यते'। पृथिव्यप्तेजोवाय्वादिद्रव्यादयो' मूर्तक्रियान्वितत्वादात्मपरिणमिता वा वसुधादयः पुद्गला जीवा एव मनुजादिवत्। कालश्चैकीयमतेन द्रव्यमिति प्रवक्ष्यते। बुधाः पञ्चैव वदन्ति। दिक् च अम्बरद्रव्यान्तर्गतत्वान्न द्रव्यान्तरमिति। नभःप्रदेशा एव भवन्ति विशिष्टरचनाभाजो दिग्व्यपदेशमन्वरुन्धन्ति। न च व्योमान्तरेण तत्स्वरूपोपलब्धिरूपा दिगस्तीति। अरूपिग्रहणाद्धर्माधर्माकाशजीवानाममूर्तत्वमाविष्करोति रूपरसवर्णगन्धपरिणमनबहिर्वर्तित्वात।
[तत्त्वार्थगत-'नित्यावस्थितान्यरूपाणि' इति सूत्रस्य व्याख्याभेदाः] [८१] अन्ये द्विधा भिन्दन्ति (सूत्रम्)-नित्यावस्थितानीति। पञ्चापि धर्मादीनि नित्यावस्थितानि भवन्ति ततोऽरूपाणि। एतान्येव धर्मादीन्यविद्यमानरूपरसादीनि द्रष्टव्यानि। चत्वारि इति पृथग्योगकरणात्किल पञ्चानामप्यवस्थितत्वमरूपत्वं चतुर्णामिति, एतच्च शक्यमेकयोगेऽपि हि। अरूपिग्रहणात्सम्भवतो धर्मादय एव सम्भत्स्यन्ते, न पुद्गलाः। अथवारूपिग्रहणात्पञ्चानामपि प्रसङ्गे अपवदिष्यते- रूपिणः पुद्गलाः (त.सू.५.४) इति। न च पृथग्योगेऽप्येषोऽर्थः शक्यो लब्धुमतो वृथा वाञ्छति।
[८२] अन्ये एवं वर्णयन्ति- एकयोग एव नित्यावस्थितान्यरूपाणि, अत्राद्ययोः समस्तपदयोः पाठः कृतः। अरूपग्रहणं तु न समस्तमाभ्यां सहातो विभक्तिद्वयश्रवणमेतस्मादुन्नीयते नित्यावस्थितग्रहणं समस्तद्रव्यविशेषणमरूपिग्रहणमेककं पुद्गलद्रव्यव्युदासेन धर्मादिचतुष्टयविशेषणम्।
[८३] अत्रान्ये व्याचक्षते-यत्किञ्चिदेतद्, अनित्यावस्थितानि रूपाणि इत्येवमपि पाठे लभ्यत एवाभिलषितोऽर्थः, उत्तरसूत्रोपादानात् तस्मात्समस्यैव त्रीण्यपि पदानि सूत्रमध्येयम्। अस्मिन्पक्षे तत्त्वार्थे विरचितविन्यासभङ्गापत्तिर्न तु प्रक्रिया दुःष्यति।
[८४] अन्ये नित्यग्रहणमवस्थितविशेषणं कल्पयन्ति। नित्यमवस्थितानि नित्यावस्थितानि 'सह सुपा' इति (अ.सू.२.१.४) समासो नित्यप्रजल्पितवद्। अस्मिन्विकल्पे तत्त्वार्थभाष्यमगमितं स्याद्भाष्यकारेण त्वेतानि त्रीण्यपि स्वतन्त्राण्येव व्याख्यातानि । तत्कथं नित्यग्रहणमवस्थितविशेषणं स्याद्? इति ।
[८५] अपरे त्वाहुः- भाष्ये आचार्येण सूत्रमेवमधीतं-नित्यावस्थितान्यरूपाणीति। अत्र च बहुव्रीहिणोक्तत्वात् मत्वर्थीयानुपपत्तिरिति, अत्रोच्यते, क्वचिद्बहुव्रीहिं बाधित्वा तत्पुरुषवृत्तौ मत्वर्थीयो भवति, तद्यथाइधार्योः शत्रकृच्छ्रिणि (अ.सू.३.२.१०३) तथा अनरवन्ति चक्राणि, सर्वधनादित्वाद्वा। अपरे ब्रुवते- भवतु मत्वर्थीयो योऽत्रार्हः, स च मतुरेव रसादिपाठान्न त्विनिरिति उक्तम्, तत्रान्यतरस्याग्रहणं समुच्चयार्थमित्यतो न दोषः।
[द्रव्येषु द्रव्यास्तिकपर्यायास्तिकयोः प्रधानगुणभावविवक्षा] [८६] एतानीत्यनन्तराधिकृतानि पञ्चापि धर्मादीनि द्रव्याणीति द्रव्यास्तिकनयाभिप्रायेण, न तु पर्यायनयसमाश्रयणात। द्रव्यास्तिको हि ध्रौव्यमेवेच्छति नोत्पादविनाशावतस्तदभिप्रायेणैषां शास्ति नित्यतामन्यथा
१. अनादिनिधनेयत्ताभ्यां न स्वतत्त्वं व्यभिचरन्ति। ननु च पृथिव्यादीनि नव द्रव्याणि तत् कथं पञ्चत्वसङ्ख्या न व्यभिचरन्ति इति? उच्यते-। त.स.भा.सि. २. पृथिव्यप्तेजोवायुमनांसि तावत् पुद्गलद्रव्यमेव मूर्तक्रियावत्त्वात्। त.सू.भा.सि. ३. यहां पर कुछ शब्द पतित हो गये है ऐसा लगता है। मूर्तान्युच्यन्ते। त.सू.भा.सि. ४. तथा च तत्त्वार्थभाष्यम्- एतानि द्रव्याणि नित्याणि भवन्ति।.... अवस्थितानि च.... अरूपाणि चा(त.सू.भा.५.३) ५. भाष्ये सति इति। त.सू.भा.सि. ६. सिद्धसेनीय टीका का उद्धरण अभी चालु है।