________________
स्याद्वादपुष्पकलिका
[द्रव्याणां गुणपर्यायवत्त्वख्यापनम्] [७७] (व्याख्या) ननु धर्मादीनां द्रव्यगुणपर्यायत्वेनानुपदेशे सति सन्देहः स्यादतः संशयव्यावृत्त्यर्थमिदमुच्यतेद्रव्याणि जीवाश्च (त.सू.५.२)। तत्र उपरिष्टाद्वक्ष्यन्ते तत्त्वार्थे गुणपर्यायवद् द्रव्यम् (त.सू.५.३७) लक्षणमिति। द्रव्याणीति सामान्यसञ्जा, धर्मादिका च विशेषसञ्ज्ञा। अतः सामान्यविशेषसञ्जाभाञ्जि धर्मादीनि। द्रव्यसञ्ज्ञा च द्रव्यत्वनिमित्ता द्रव्यास्तिकनयाभिप्रायेण जातिश्च शब्दार्थः। तच्च द्रव्यत्वं परमार्थविचारणायां व्यतिरिक्ताव्यतिरिक्तपक्षावलम्बि नैकान्तेनान्यद्धर्मादिभ्यो नान्यदिति पुरो वक्ष्यत' इत्याह[७८] [मूल| नित्यावस्थितान्यरूपाणि तत्त्वार्थे प्रवदन्ति च।
___ लोके समग्रद्रव्येषु गुणपर्यायकेषु च॥७४॥ [मूल] तद्भावाव्ययभावेन नित्यमिति प्रवक्ष्यते। पञ्चत्वभूतार्थत्वाभ्यां द्वितीयोऽव्यभिचारतः॥७५॥ [मूल] स्पर्शादिमूर्त्यभावेन अरूपीति निगद्यते। सामान्यान्यविशेषानि सूत्रोक्तानि भवन्ति ते॥७६॥
(व्याख्या) लोके चतुर्दशरज्ज्वात्मके सकलद्रव्यगुणपर्यायेषु नित्यावस्थितारूपाणि त्रीणि प्रवदन्ति = कथयन्तीत्यर्थः। एतानि धर्मादीनि मयूराण्डकवत्सम्मूर्च्छितसर्वभेदबीजानि देशकालक्रमव्यङ्ग्यभेदसमरसावस्थैकरूपाणि द्रव्याणि, गुणपर्यायकलापपरिणामयोनित्वात्। भेदप्रत्यवमर्शेनाभिन्नान्यपि भिन्नानीव भासन्ते। द्रव्यं च भव्ये इति वचनात् (अ.सू.५.३.१०४) भावे कर्तरि च निपात्यते। इह तु भावे द्रव्यं भव्यं भवनमिति द्रव्यस्वभावव्याख्याने वक्ष्यामः।
[तत्त्वार्थगत-'द्रव्याणि जीवाश्च' इति सूत्रविमर्शः] [७९] अन्ये तत्र द्वयमेतदधीयन्तो द्रव्याणि जीवाश्च, तत्त्वयुक्तम्, अस्तिकायता द्रव्यता च प्रतिपिपादयिषिता जीवानाम्, सा चैकयोगेऽपि सति प्राणिनामव्याहतैव 'च' शब्दोपादानसामर्थ्यादतः क एष निर्विशेषो उपयोगद्वयादरः? पूर्वोक्ता धर्मादयश्चतुःसङ्ख्यावच्छिन्नाः प्राणिनश्चास्तिकाया द्रव्याणि च। चशब्दादुभयमभिसम्बध्यते प्राणिषु, द्रव्यता चैषां स्वपरनिमित्तद्वयोपलक्षिता। तत्र स्वनिमित्तं स्वधर्मव्याप्तिः ययासाववष्टब्धः तथा गृह्यतेऽस्वधर्मव्याप्त्यैव द्रव्यम, प्रतिषिध्यते प्रत्याय्यते च यथाभतं वा ज्ञायते। स्वधर्मप्राप्तिश्च व्याप्तिलक्षणा तादात्म्येन व्यवस्थानम्। ततश्च स्वभावावस्थानमेव द्रव्यलक्षणं परनिमित्तं चक्षाह्यं रूपमित्यादि योज्यम्। द्रव्यमेव हि तत्तथा व्यपदिश्यते रूपादितया गत्याधुपग्रहकृत्तया च। विशेषणापेक्षं पितृपुत्रभ्रातृभागिनेयमातुलादिसम्बन्धिदेवदत्तवदिति। परनिजनिमित्तोपलक्षणदर्शनाभिप्रायेण वाह। अतः स्वपरनिमित्तोपलक्षितानि धर्मादीनि द्रव्यास्तिकाभिप्रायवशात् प्रतिपत्तव्यानीति।
[तत्त्वार्थगत-'नित्यावस्थितान्यरूपाणि' इति सूत्रविमर्शः]
[८०] अथ द्वितीयमवस्थितभेदमाह- पञ्चत्वमित्यादि। अथैतानि पञ्चत्वसङ्ख्यावच्छिन्नानि धर्मादीनि द्रव्याणि किमु कदाचित्स्वभावात्प्रच्यवन्ते? पञ्चत्वसङ्ख्यां वा व्यभिचरन्ति? मूर्तान्यमूर्तानि वा? इति प्रश्नत्रयगतसंशयनिवारणाय प्रोच्यते- तद्भावेत्यादि। (नित्यावस्थितान्यरूपाणि त.सू.५.३) यथासङ्ख्यमनेन सूत्रेण प्रश्नत्रितयं प्रत्युच्यते। नित्यग्रहणाद्धर्मादीनां स्वभावादप्रच्युतिराख्यायते। अवस्थितग्रहणादन्यूनानधि-कत्वमावि
१. देखिए- त.सू.भा.सि.पृ.३१९। २. उक्तं हि इत्यादि। त.सू.भा.सि. ३. त.सू.भा.सि टीका का उद्धरण है। वृत्ताकार कोष्ठकगत पाठ सिद्धसेनीय टीका का है।