________________
स्याद्वादपुष्पकलिका
भवशरीराध्यवसायादयः। भव्यत्वादयोऽनादि सान्तपर्यायाः॥ इति पर्यायद्वारम॥६३॥
[७४] अथैतदर्थगर्भितस्य स्पष्टार्थायाष्टगाथा आह[मूल] प्रदेशासङ्ख्यपिण्डत्वस्थितिद्रव्येषु द्रव्यकः।
गत्यादयो विशेषाश्च धर्मोऽस्ति द्रव्यव्यञ्जनः॥६४॥ [मूल] तथा स्थित्यादयोऽधर्मेऽवगाहप्रमुखा अम्बरे। चैतन्यत्वादयो जीवे पुद्गले वर्णकादयः॥६५॥ [मूल] परावृत्त्यादयः काले गदितो द्रव्यव्यञ्जनः। गुणाविभागानन्तानि द्रव्येषु तृतीयो भवेत्॥६६॥ [मूल] धर्माधर्माभ्रकालेष्वरूपावर्णादयो गुणाः।
जीवे ज्ञानादिकानां च ज्ञानं स्याद् गुणव्यञ्जनः॥६७॥ [मूल] पुद्गले रूपमादृत्य वर्णगन्धरसादयः। गुणव्यञ्जनपर्यायाः द्रव्येषु गदिता मया॥६८॥ [मूल] स्वपर्याया (अ)गुरुलघुविकारास्ते स्वभावजाः।
षड्गुणाः वृद्धिहानिभ्यां सर्वद्रव्येषु विद्यन्ते ॥६९॥ [मूल] जीवे विभावपर्यायाश्चत्वारो गतयः स्मृताः।
व्यणुकादयः पुद्गले स्कन्धा भवन्त्यनन्तकाः॥७०॥ [मूल] अनादिनित्यपर्यायैः भूधराः सन्ति भूतले। एवं द्रव्येषु पर्यायद्वारं निगदितं मया॥७१॥ (व्याख्या) एते गतार्थत्वात्स्पष्टाः सन्ति॥६४॥६५॥६६॥६७॥६८॥६९॥७०॥७१॥ इति पर्यायद्वारम्॥
[चतुर्थं स्वभावद्वारम्। [७५] अथ धर्मादिषु स्वभावद्वारनिरूपणाय गाथामाह[मूल] शुद्धाशुद्धमूर्तजीवविभावेषुस्वभावकान्।
विमुच्य धर्मादित्रिषु दिग्गजाः स्युः स्वभावजाः(काः)॥७२॥ (व्याख्या) शुद्धादिविभावान्तानि पञ्च स्वभावानि विमुच्य = परित्यज्य धर्मादिषु त्रिष्वष्टादश स्वभावा भवन्तीति। एतद्विचारमग्रे गदिष्यामीति॥७२॥
[कालजीवयोः स्वभावाः] [७६] अथ कालजीवयोः स्वभावप्ररूपणाय गाथामाह[मूल] बहुप्रदेशमुक्तेन काले दिग्भूधराधिकाः। जीवपुद्गलयोरेकविंशतिः स्युः स्वभावकाः॥७३॥
(व्याख्या) पूर्वोक्ताष्टादशस्वभावगतानेकप्रदेशमुक्तेन काले दिग्भूधराधिका = सप्तदशस्वभावाः स्युः। तथा जीवपुद्गलयोरेकविंशतिः स्वभावा भवन्ति। जीवस्याचेतनमूर्तिरूपं विमुच्यैकविंशतिः, पुद्गले च चेतनामूर्तिकं परिहत्यैकविंशतिरित्यर्थः॥७३॥
१. धर्मेऽस्ति द्रव्यव्यञ्जनः अथवा धर्मे स्युः द्रव्यव्यञ्जना: पाठ व्याकरण की दृष्टि से शुद्ध है। २. सन्ति ते पाठ व्याकरण की दृष्टि से शुद्ध है।