SearchBrowseAboutContactDonate
Page Preview
Page 58
Loading...
Download File
Download File
Page Text
________________ स्याद्वादपुष्पकलिका पूर्वोक्तगुणेषु गतिं परिहृत्य स्थितिक्षेपेणाचेतनाक्रियारूपस्थित्युपष्टम्भहेतुरूपाश्चत्वारो विशेषगुणा भवन्ति। तथा क्रमादम्बरकालयोः स्थितिं परिहृत्य अवगाहनपरावर्तनयोः क्षेपात् प्रत्येकं चत्वारो विशेषगुणाः सन्तीति। शेषं स्पष्टमेव। अत्र सामान्यविशेषयो: व्याख्यामग्रे वक्ष्यामः॥५७॥५८॥५९॥६०॥ तृतीयं पर्यायद्वारम्, द्रव्यपर्यायः, द्रव्यव्यञ्जनपर्यायः] [७१] अथ पर्यायद्वारगाथामाह[मूल] प्रदेशासङ्ख्यकैकत्वस्थितिव्यं निगद्यते। __गुणोत्कटान्यद्रव्याणां प्रोच्यते द्रव्यव्यञ्जनः॥६१॥ (व्याख्या) असङ्ख्येयप्रदेशपिण्डैकस्वरूपो द्रव्यैकस्मिन्समावेशः स द्रव्यपर्यायः। धर्माधर्मजीवानां प्रत्येकमसङ्ख्येयप्रदेशपिण्डवदिति। तथा पुद्गलाभ्रावनन्तप्रदेशात्मकाविति। गुणोत्कटेत्यादि। स्वकीयान्यद्रव्यगता विशेषगुणानां द्रव्याणां प्रवेशेन द्रव्यव्यञ्जनपर्यायाः स्वद्रव्यगता एवावस्थितत्वात् प्रोच्यन्ते। यथा धर्मादिषु गतिस्थित्यवगाहनचैतन्यपूरणगलनपरावर्तनक्रमाद् गुणस्वरूपाणि निजगतभिन्नभावस्थितिवत्॥६१॥ [गुणपर्यायः, गुणव्यञ्जनपर्यायः] [७२] अथ गुणगुणव्यञ्जनस्वरूपगाथामाह[मूल] गुणाविभागानन्ताः पर्यायव्यूहका गुणाः। ज्ञानादयः कार्यरूपाश्चतुर्थो गुणव्यञ्जनः॥६२॥ (व्याख्या) गुणेत्यादि। गुणानां पिण्डत्वरूपाः पर्याया गुणादविभागभावेनानन्ता भवन्ति। धर्मादिद्रव्येषु पर्यायसमुच्चयो गुणा इति। ज्ञानादयः कार्यरूपा इत्यादि। तथा ज्ञानभेदा मतिज्ञानादयः, दर्शनस्य चक्षुर्दर्शनादयः, पर्यायाः क्षमामार्दवादयः चारित्रस्यावर्णागन्धारसास्पर्शादयः पर्याया इत्यादि जीवस्येति। तथा पुद्गलस्याचेतनवर्णगन्धरसादय इति। तथा धर्मादीनामरूपावर्णादय इत्यादयो गुणव्यञ्जनपर्यायाः॥६२॥ [द्रव्येषु स्वभावविभावपर्यायाः] [७३] अथ द्रव्येषु स्वभावविभावपर्यायगाथामाह[मूल] द्रव्येषु ये स्वपर्यायाः प्रोच्यन्ते ते स्वभावजाः। ये द्रव्येष्वन्यपर्यायास्ते विभावा निगद्यते (न्ते)॥६३॥ (व्याख्या) द्रव्येष्वित्यादि। द्रव्येषु स्वपर्याया अगुरुलघवस्ते षट्स्थानवृद्धिहानिभ्यां द्वादशविधाः सन्ति। ते पूर्वोक्ता एव ज्ञातव्याः। वस्तुमूलधर्मस्वभावादनुभवगम्याः सन्ति। एते पञ्चापि पर्यायाः सर्वद्रव्येषु भवन्ति तथा विभाविपर्यायास्तु जीवपुद्गलयोरेव भवन्ति। जीवस्य नरनारकादिगतयश्चतुरशीतिलक्षयोनिरूपो वा भवति। पुद्गलस्य तु व्यणुकत्र्यणुकाद्यनन्ताणुकस्कन्धेषु परस्परसम्मिलनरूपोऽस्ति। पुद्गले शाश्वते शैलादिष्वनादिनित्यरूपेण पर्यायास्तिष्ठन्ति। जीवे सिद्धावस्थायां सिद्धावगाहनादयः सादिनित्यभावेन पर्यायाः सन्ति। सादिसान्तपर्याया १. यहां पर गुणोत्कटान्ये की जगह गुणोत्कटान्य पाठ संगत प्रतीत होता है। न च.सा.पू-१८०। २. निगद्यन्ते पाठ व्याकरण की दृष्टि से शुद्ध है।
SR No.009265
Book TitleSyadvada Pushpakalika
Original Sutra AuthorN/A
AuthorCharitranandi,
PublisherShrutbhuvan Sansodhan Kendra
Publication Year2015
Total Pages218
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy