________________
स्याद्वादपुष्पकलिका
(व्याख्या) यैर्द्रव्याद् द्रव्यस्य पृथग्भावः प्रक्रियते ते गुणाः। अतो ये गुणा द्रव्येषु भवन्ति तान् जिनागमाद्वच्मीत्यर्थः॥५३॥
द्वितीयं गुणद्वारम्। [६८] अथ गुणलक्षणगाथामाह[मूल] द्रव्यैकस्मिन्प्रदेशे च शक्याः स्वकार्यहेतवे। सन्त्यनन्ताविभागा ये पर्यायसञ्चया गुणाः॥५४॥
(व्याख्या) ये द्रव्यैकस्मिन्प्रदेशे स्वकार्यहेतवे = निजकार्यं विधातुं शक्यास्ते पर्यायसञ्चया गुणा अनन्ताविभागा भवन्तीत्यर्थः। तत्र सामर्थ्यवस्तुप्रवृत्तिभ्यां गुणो द्विविधोऽस्तीति। तत्रैकस्मिन्द्रव्ये प्रदेशं प्रति निजनिजकार्यकारणसामर्थ्यरूपा अनन्ता अविभागरूपाः छेदनभेदनाद्यभावेन ये पर्यायाः सन्ति तेषां समुदायो गुणा भवन्तीति। भिन्नभिन्नकार्यकरणसामर्थ्यरूपा गुणस्य पर्याया भिन्ना भवन्ति। एवं गुणा अप्यनन्ततां यान्ति। प्रतिगुणं प्रतिप्रदेशं पर्याया अविभागरूपा अनन्तास्तुल्यात्मप्रदेशप्रवर्तमानास्ते भवन्तीति। यथा अविभागपरिणमनावलम्बनरूपः कार्यसामर्थ्यरूपो वीर्यगुणसामर्थ्यरूपोऽस्ति। एवं जीवं प्रति ज्ञानदर्शनादयो गुणा अनन्ताः सन्ति। तथा पञ्चास्तिकायेष्वप्यगुरुलघुपर्यायाः तरतमभेदेनानन्ताः विद्यन्त इत्याशयः। गुणानामासओ दव्वं (गुणानामाश्रयो द्रव्यम्) इति वचनात्। कार्यरूपा गुणपर्यायाः सन्ति। तदुक्तं भाष्ये-यावन्तो ज्ञेयास्तावन्त एव ज्ञानपर्याया इत्यादि। एवं वस्तुप्रवृत्यर्थेऽप्यनन्ताः भवन्तीति॥५४॥
[द्रव्येषु सामान्यगुणाः] [६९] अथ द्रव्येषु सामान्यगुणसङ्ख्यार्थं गाथाद्विकमाह[मूल] धर्माधर्माभ्रद्रव्येषु मूर्तचेतनसक्रियम्। विहाय दिग्गुणाः सन्ति सामान्यानि बुधोदिताः॥५५॥ [मूल] जीवाक्रियामूर्तकत्वं मूर्तत्वचेतनाक्रियम्। विमुच्य पुद्गले जीवे सामान्याः प्रभवन्ति ते॥५६॥
(व्याख्या) धर्माधर्माकाशद्रव्यत्रिकेषु चेतनसक्रियमूर्तत्रिकं परित्यज्य बुधोदिताः पूर्वोक्तानि सामान्यानि दश गुणाः सन्ति। तथाहि द्रव्यत्वास्तित्ववस्तुत्वप्रदेशत्वप्रमेयत्वसत्त्वागुरुलघुत्वाचेतनत्वामूर्तत्वाक्रियत्वरूपाणीति। जीवेत्यादि। सामान्यगुणाः क्रमात्पुद्गले चेतनामूर्ताक्रियं विमुच्य दश गुणाः सन्ति। तथा जीवे मूर्तत्वाक्रियाचेतनत्वं परिहृत्य दश सामान्यगुणा भवन्तीत्यर्थः॥५६॥
___ [द्रव्येषु विशेषगुणाः] [७०] अथ द्रव्येषु गुणाधिकाराद्विशेषगुणा अपि गाथाचतुष्केन प्राह[मूल] अचैतन्यामूर्तगत्यक्रिया धर्मे द्वयोत्कटाः। गतिं मुक्त्वा स्थितिक्षेपादधर्मे सन्ति वारिधिः॥५७॥ [मूल] तथावगाहनक्षेपात्परावर्तनकस्य च। विशेषाब्धिगुणाः सन्ति क्रमादम्बरकालयोः॥५८॥ [मूल] वीर्यदृष्टिज्ञानसुखचैतन्यमूर्तकानि च। विशेषाः षड् गुणाः ज्ञेया जीवद्रव्ये भवन्ति च॥५९॥ [मूल] वर्णगन्धरसस्पर्शाचैतन्यरूपकास्तथा। गुणास्ते पुद्गले सन्ति गुणद्वारं प्ररूपितम्॥६०॥ (व्याख्या) धर्मे = धर्मास्तिकाये अचैतन्यामूर्तगत्युपष्टम्भाक्रिया गुणा विशेषाः चत्वारो भवन्ति। अधर्मे च