________________
स्याद्वादपुष्पकलिका
वैशेषिकाभिमतसप्तपदार्थखण्डनम्। [६२] (व्याख्या) तथा वैशेषिकाः सप्तपदार्थान् अवमन्यन्ते। तथाहि
द्रव्यं गुणस्तथा कर्म सामान्यं सविशेषकम्। समवायस्तथाभावः पदार्थाः सप्त कीर्तिताः॥ (का.२) एतदप्यसत्यम्। गुणास्तु द्रव्यान्तर्गता एव तिष्ठन्ति। कर्मस्तु(तु) द्रव्यस्य कार्यरूपमस्ति। सामान्यविशेषौ तु द्रव्येषु परिणमनभावेन भवतः। समवायस्तु द्रव्ये कारणरूप एव प्रवर्तते। अभावस्त्वसद्भाव एवास्ति। अतस्तद्ववचनमसत्यमिति। तथा वैशेषिका द्रव्याणि पृथिव्यप्तेजःसमीराम्बरकालदिगात्ममनांसि नवैवेति मन्यन्ते। तत्र पृथव्यप्तेजोवायवस्त्वात्मैव भवति, कर्मयोगाद्देहभेदाभिधानमस्ति। कालस्त्वम्बरे मिश्रित एव तिष्ठति। मनस्तु भवस्थजीवस्योपयोगप्रवर्तनरूपमस्तीति। अत एते पृथिव्यादयो भिन्नभावरूपा न सम्भवन्ति। इत्येते वैशेषिकमते दोषाः।
[अद्वैतवादखण्डनम्। [६३] तथा वेदान्तिकास्त्वात्मा अद्वैतभावमाश्रित्य एकमेव द्रव्यं मन्यन्ते। तत्र पुद्गलस्कन्धद्रव्यरूपो देहः कथमेकभावोऽस्ति? तथात्मादेहाधाराकारोऽस्ति। अतोऽद्वैतभावो न घटते इति।
[बौद्धमतखण्डनम्] [६४] तथा शौद्धोदनीया जीवकालाकाशपुद्गलाश्च क्षणविनश्वरभावेन चत्वारः पुनः पुनः नूतनपर्याया मन्यन्ते। तत्र जीवपुद्गलयोरेकक्षेत्रस्थित्यभावेन तत्प्रचलनादिभावाप्तौ अपेक्षाकारणरूपधर्माधर्मास्तिकायाववश्यम् एवाङ्गीकर्तव्यौ स्तः। अतस्ते मृषावादिनो भवन्ति।
[ईश्वरकर्तृत्वखण्डनम्। [६५] तथा केचिदीश्वरकर्तृकसंसारस्थितिं परमेश्वरं मन्यन्ते, तदप्यसत्यं, परमेश्वरस्य रागद्वेषाद्यभावेन संसारकर्तृत्वाभावादिति। पुनः केचिदीश्वरेच्छा वदन्ति, तदपि मृषावागस्ति, पूर्णगुणान्वितेश्वरस्येच्छाभावात्। पुनः केचिल्लीलां वदन्ति, तदपि चिन्तनीयमेव, ईश्वरस्य सदानन्दमयत्वात् चिद्ध्यानरूपत्वाच्चेति। अतो धर्माधर्मयोर्विना न किञ्चिद्भवत्येवेति।
[मीमांसकमतखण्डनम्। [६६] तथा मीमांसकादयः- जीवपुद्गलसंयोगाद्धर्मादिचतुर्णामुत्पत्तिर्मन्यन्ते। पुनः लोकालोकप्रमितमाकाशं भिन्नद्रव्यं वदन्ति, एतदप्यसत्यमस्ति
परिणामादिभावादिति गाथार्थः॥५२॥ इति द्रव्यलक्षणद्वारम्॥ [६७] अथ गुणद्वारस्वरूपगाथामाह[मूल] द्रव्याद् द्रव्यपृथग्भावो यैस्ते प्रक्रियते गुणाः।
द्रव्येषु ये गुणाः सन्ति वच्म्यहं तान् जिनागमात्॥५३॥