________________
स्याद्वादपुष्पकलिका
गुणपर्यायवद् द्रव्यमेतत्पर्यायमादृतः॥५१॥
(व्याख्या) अथवा द्रव्ये गुणाः कारणप्रतिबद्धाः कार्ये प्रवर्त्तमाने भवन्ति । गुणस्य पर्याया कारणरूपाः सन्ति। अतः द्रव्ये गुणपर्याययोर्निजाश्रयेण परिणमनरूपोऽस्ति । अनेन गुणपर्यायवद् द्रव्यम् (त.सू.५.३७) इत्येतल्लक्षणमागतम् अस्ति। गुणपर्यायान्वितद्रव्यैक्यगतविभागाभावात्। एतद् द्रव्यस्य मूललक्षणम्। पुनर्ये विविधभूतपरमाणुनिचयस्कन्धरूपं द्रव्यमपेक्ष्यन्ते, ते उपचाररूपेण मन्यन्ते । द्रव्यं निजपरिणमनभावं कालत्रये कदापि न विमुञ्चति, मूलजातित्वात्। द्रव्यगत-अगुरुलघुः षट्गुणवृद्धिहानिरूपस्वजातीयलक्षणचक्रैकभावः प्रचलती-त्याशयः। यत्र पृथग्भावेन भ्रमणं करोति तत्पृथग्द्रव्यमवगन्तव्यमिति। अतो धर्माधर्माभ्ररूपाणि द्रव्याणि पृथगेकैकानि सन्ति । जीवस्त्वसङ्ख्यातप्रदेशरूपैकद्रव्यमस्ति। एतादृशा जीवाः सर्वलोके अनन्ताः सन्ति। श्रेयोवासस्थसिद्धा अपि लोके घटन्त्येव। लोके जीवसङ्ख्यावृद्धिहान्यभावात्।
२१
[५९] एवमेकाकाशप्रदेशे नैके परमाणवो विद्यन्ते । ते एकैव एकमेव द्रव्यमस्ति । ते परमाणवः समग्र-जीवप्रदेशेभ्योऽनन्तगुणा भवन्ति। द्विप्रदेशाद्यनन्तप्रदेशात्मकस्कन्धगतस्थेऽपि लोके प्रमित-परमाणूनां वृद्धिहान्-यभावादिति ॥ ५१ ॥
| व्यवहारनयेन द्रव्यलक्षणम्।
[६०] अथ व्यवहारनयलक्षणार्थं गाथामाह
परिणामादिभावतः ॥५२॥
[मूल] अर्थक्रियाकारि द्रव्यं स्वस्वधर्मसमादृतैः। इत्यादयो रसगुणाः' (व्याख्या) निजनिजधर्ममादृत्य यदर्थक्रियाप्रवृत्तिकरणं द्रव्यमिति । जीवस्य समग्रज्ञेयप्रबोधाय शुद्धक्रियाज्ञानादिगुणप्रवृत्तिर्ज्ञानविभागप्रवृतिरित्याशयः । एवं सर्वगुणानां यज्ज्ञानं कार्यविशेषधर्मज्ञानस्वरूपमिति। एवं दर्शन-गुणस्य समस्तकार्यसामान्यस्वभावबोधरूपमिति। एवं चारित्र कार्यस्वरूपपरिणमनमिति। एवं धर्मास्तिकायस्य स्वगतिगुणपरिणमितजीवपुद्गलानां चलनधर्मसहायकरणरूपमित्यादि । एवमधर्मादिद्रव्याणामपि निजमत्यनुसारेण ज्ञेयम्। एवं सर्वद्रव्यगतगुणानामपि स्वकार्यानुजातीयप्रवृत्तिका अर्थक्रिया योजनीया । तत्र धर्मादयः षड्द्द्रव्याणि प्रोक्तान्येव ज्ञातव्यानि। एतत् षड्द्रव्यं विमुच्य अन्यानि पदार्थानि जिनशासने न सन्ति।
१. यहां पर एकैकाः पाठ अधिक संगत प्रतीत होता है।
२. इस पंक्ति का संतोषप्रद अन्वय नहीं लगता।
३. गुणस्य । त.सू.भा.सि.
[द्रव्यप्रस्तावे नैयायिकाभिमतषोडशपदार्थखण्डनम् |
[६१] (व्याख्या) अत्र नैयायिकादयः षोडश पदार्था मन्यन्ते । ते चामी- प्रमाण- प्रमेय-संशय-प्रयोजनदृष्टान्त-सिद्धान्तावयव-तर्क- निर्णय-वाद- जल्प-वितण्डा- हेत्वाभास-छल-जाति-निग्रहस्थानानां तत्त्वज्ञानान्निःश्रेयसाधिगम इति ( न्या. सू. १- १ - १)। तत्र प्रमाणं पदार्थभिन्नभावाङ्गीक्रियमाणेन जीवद्रव्यस्य ज्ञानप्रमेयगुणोऽस्ति। गुणस्तु गुणिनि तिष्ठत्येवातो भिन्नभावस्तु न विभाव्यते । एवं प्रयोजन-सिद्धान्तादयो गुणा अपि जीवस्य प्रवृत्तिरूपा एव तिष्ठन्तीत्यर्थः । अतः प्रमाणस्य भिन्नवक्तव्यतादोषोऽस्ति।