SearchBrowseAboutContactDonate
Page Preview
Page 54
Loading...
Download File
Download File
Page Text
________________ २० स्याद्वादपुष्पकलिका अनाद्यनन्तकालादपि वृद्धिहीना(हान्य)भावात्। एवं पञ्चास्तिकाया बोद्धव्याः। एवं नभोद्रव्यमपि लोकाकाशप्रदेशभावेनैकमपि परन्तु जीवादिद्रव्यानां प्रदेशाः पृथग्भावेन निजावगाहनायां सन्ति। क्षेत्रस्य द्रव्येभ्य: पृथग्भावाभावात् सर्वप्रदेशे गुणपर्याया अनन्ताः प्रदेशस्थाः पर्यायाः स्वप्रदेशं विमुच्य प्रदेशान्तरेषु न गच्छन्तीत्यर्थः। [कालभेदेन द्रव्ये भेदः] [५६] अथ कालभेदमाह- एकस्मिन्वस्तुद्रव्ये उत्पादव्ययस्वरूपेण पर्यायस्पन्दनः समयैकमानोऽस्ति। तथोत्पादव्ययैरगुरुलघुवृद्धिहानिभावेन परिणमनमेकसमयोऽस्ति। एवमनन्त अतीतसमयोऽभूत्। तद्वर्तनपरिणमनभावेन परम्परारूपोऽस्ति। एवमागामिकोऽपि भविष्यति, भूतागामिकालस्य(योः) पुजाभावात्। अतः पञ्चास्तिकायपिण्डरूपपरिणमनं कालमानमिति। अतः समयादिभेदमानेनैव कालभेदोऽस्ति। ये पर्याया भिन्नभिन्नकार्यं कुर्वन्ति तदेव कार्यभेदभिन्नोऽस्ति भावभेद इत्याशयः। तत्र क्षेत्रकालभावभेदानां मिश्रीभूयैकपिण्ड-रूपाधारसमुदायावस्थितत्वं द्रव्यलक्षणम। द्रवति गच्छति (तांस्तान) यान्यान्पर्यायानिति द्रव्यम॥४९॥ [द्रव्यस्य मुख्यलक्षणम्] [५७] अथ पुनर्मुख्यद्रव्यलक्षणसार्द्धगाथामाह[मूल] व्ययोत्पादध्रुवयुतं यत्सत्तद् द्रव्यलक्षणम्। भवेत्समग्रद्रव्येषु योज्यं मेधानुसारतः॥५०॥ (व्याख्या) द्रव्यपर्याययुगलनयमाश्रित्य लक्षणम्। व्ययोत्पादध्रुवयुतं यत्सत्तद् द्रव्यलक्षणं समस्तद्रव्येषु भवेदेवं मेधा = बुद्धिः तदनुसारतो गुरुपरम्परातोऽवसेयम् इत्यर्थः। अथ(त्र) नूतनपर्यायसमुद्भवनरूपो यः स उत्पादः, पूर्वपर्यायविनशनरूपो यः स व्ययः, यो नित्यसत्त्वादिगुणयुक्तः स ध्रुवः। एते त्रयोऽपि भावाः परिणमनभावेन यत्परिणमनं तद् द्रव्यम्। अतः कारणकार्ययोः समकालेन परिणमन्ति। कारणाभावेन कार्योत्पत्तेरभावात्। यो हेतुः कार्योत्पत्तिं न करोति स कारणमपि न स्यात्, ऊखरभूम्यां घनवृष्टिवत्। अतो य उपादानहेतुः स एव कार्योत्पत्तये शक्तोऽस्ति, मृत्तिकापुञ्जजन्यघटादिवत्। समयं प्रति नूतनकारणोत्पत्तौ सत्यां समये समये नूतनकार्योत्पत्तिरस्ति। अतः कारणकार्ययोरुत्पादव्ययभावेन गुणपिण्डरूपैकत्वद्रव्याधारैकत्वध्रुवस्थैर्यत्वैः तादृशपरिणमनरूपो(पमस्ति)ऽस्ति। अत उत्पादव्ययध्रुवयुक्तं प्रत्ययन्सत् तल्लक्षणं द्रव्यमस्ति। एतल्लक्षणं द्रव्यपर्यायोभयनयमाश्रित्य प्रोक्तम्, द्रव्यास्तिकधर्ममपेक्ष्य ध्रुवत्वमुक्तम्, पर्यायास्तिकमादृत्योत्पादव्ययौ गृह्णन्ति। अत एतल्लक्षणं द्रव्यं विद्वज्जनाह्लादकमस्तीत्याशयः॥५०॥ [तत्त्वार्थगतद्रव्यलक्षणम्। [५८] एतदेवाह[मूल] द्रव्यपर्याययुगलनयमाश्रित्य लक्षणम्। इति। अथ तत्त्वार्थगतद्रव्यलक्षणोत्तरार्द्धशेषगाथामाह १. यहां पर एकसमयमस्ति यह पाठ अधिक संगत प्रतीत होता है। २. तेषाम्। त.सू.भा.सि. ३. अभिप्रेत्य यत् सत्। त.सू.भा.सि.
SR No.009265
Book TitleSyadvada Pushpakalika
Original Sutra AuthorN/A
AuthorCharitranandi,
PublisherShrutbhuvan Sansodhan Kendra
Publication Year2015
Total Pages218
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy