________________
स्याद्वादपुष्पकलिका
[मूल] यं लक्ष्यते यथार्थेन वस्तु सद्रूपलक्षणम्। क्षेत्रकालभावकानामेकपिण्डस्वरूपकम्॥४८॥
(व्याख्या) हि = अस्माद्धेतोर्यत्सर्वथा विरोधेन व्याप्यव्यापकभावतो जीवादिवस्तुनो भावः स्वरूपक्षेत्रकालभावानामेकपिण्डस्वरूपं यथार्थेन सद्रूपलक्षणं वस्तु लक्ष्यते तद् द्रव्यमित्यर्थः। (शं) ननु लक्षणस्य लक्षणं किम्? (स) परस्परव्यतिकरे(रेके) सति येनान्यत्वं लक्ष्यते तल्लक्षणमिति। पुनरात्मभूतानात्मभूताभ्यां लक्षणं द्विविधमस्ति। तत्र यद्वस्तु स्वरूपानुप्रविष्टं तदात्मभूतम्, शिखायामुष्णवत्। उष्णं हि पावकस्वरूपं स जलादिभ्यो व्यावर्तयति। तद्विपरीतमनात्मभूतं यथा दण्डो मानुजस्य, दण्डिनमानयेत्युक्ते हि दण्डो मानवाननुप्रविष्ट एवान्यमानुजं व्यावर्तयतीति।
नैयायिकोक्तलक्षणलक्षणे दोषप्रदर्शनम्] [५३] अनेन ये केचिद्वदन्ति-असाधारणधर्मवचनं लक्षणमिति तदनुपपन्नम्, लक्ष्यधर्मिवचनस्य लक्षणधर्मवचनेन समानाधिकरण्याभावप्रसङ्गात्, दण्डादेरतद्धर्मस्यापि लक्षणत्वाच्च। पुनः व्याप्त्यभिधानलक्षणाभासस्यापि तथात्वात्। तद्यथा त्रयो लक्षणाभासभेदाः-अव्याप्तमतिव्याप्तमसम्भवश्चेति। तत्र लक्ष्यैकदेशप्रवृत्तमव्याप्तम्, यथा गोः शाबलेयत्वम्। लक्ष्यालक्ष्यप्रवृत्तमतिव्याप्तम्, यथा गो: पशुत्वमिति। बाधितलक्ष्य-वृत्तिक(कोऽ)मसम्भवं(वः) यथा नरस्य विषाणत्वम्। अत्र लक्ष्यैकदेशवर्तिनः पुनरव्याप्तस्य असाधारणधर्मत्वभावोऽस्ति, न तु लक्ष्यभूतगौमात्रव्यावर्तकत्वम्। ततः यथोक्तमेव लक्षणम्। तस्य कथनं लक्षणनिर्देश इति।
[स्वाभिमतलक्षणलक्षणम्। [५४] तथा जीवादेर्मूलधर्मा वस्तुभावस्वरूपाः काञ्चनस्थगुरुपीतस्निग्धतादिस्वरूपवत्, एतत्कार्यं भूषणादीनामनेकभोग्यस्वरूपमिति। एवं धर्मादिषु गतिस्थित्यवगाहज्ञानदर्शनचारित्रादिरूपारूपीपरावर्तनादि। ज्ञानमभिन्नभावावस्थिते वस्तु तत्तत्त्वम्। असम्भवादिदोषाभावत्वं व्याप्यत्वम्, व्याप्याधिकरणत्वं व्यापकम्। अतो व्याप्यव्यापकभावेन वस्तूनां यथार्थविषयज्ञानं वस्तुलक्षणम्। तत्र तल्लक्षणं द्विविधं बाह्यलिङ्गाकाररूपं वस्तुगतरूपम्। तच्च तत्र बाह्यलिङ्गाकारादिदर्शनात्मकं बोधं तत्प्रथमं गवादिवत्। वस्तुगतत्वावच्छिन्नं तद्गतस्वरूपज्ञानं वस्तुगतरूपं चेतनधर्मलक्षणजीववत्। तथा चेतनाभावोऽजीव इति॥ एवं सर्वभावानां लक्षणस्वरूपाणि भवन्तीति॥४७॥४८॥
कार्यभेदेन द्रव्ये भेदाः]
[५५] अथ द्रव्ये कार्यभेदगाथामाह(सूत्रं) [मूल] कार्यभेदेन भावानां द्रव्ये भेदा भवन्ति च। तज्ज्ञागमानुसारेण ज्ञातव्या जिनशासने॥४९॥
(व्याख्या) द्रव्ये स्वस्वकार्यभेदेन भावानां वस्तूनां भेदा भवन्ति। ते तज्ज्ञागमानुसारेण = जिनप्रवचनानुसारेण जिनशासने ज्ञेया इत्यर्थः। तत्र द्रव्यक्षेत्रकालभावभेदेन द्रव्यं चतुर्विधमस्ति। तत्र धर्माद(दि)यो द्रव्याणि स्वस्वमूललक्षणापेक्षया निजभावैकभेदेऽपि परन्तु निजनिजवस्तुगतपिण्डमाश्रित्य पृथक् तिष्ठन्तीति द्रव्यभेदः। यथा सामान्येन सर्वेऽपि जीवा जीवत्वभावेन सदृशा अपि प्रतिजीवं स्वस्वगुणपर्यायपिण्डरूपाः पृथग्भावाः तिष्ठन्ति, परस्परसंमिश्राभावात्। एवं पुद्गला अपि जडमूर्तादिभावेन तुल्या अपि सर्वेऽपि परमाणवः पृथग्भावाः सन्ति
२. तद्धि। त.सू.भा.सि.