________________
स्याद्वादपुष्पकलिका
[४९] पुद्गलद्रव्यमङ्गीकृत्य अवयवबहुत्वमुक्तम, अवयूयन्त इत्यवयवाः परमाणुदव्यणुकादयः। परमाणवो हि समुदायपरिणतिमनुभूय भेदमपि प्रतिपद्यन्ते, ततश्चैकका अपि भवन्ति, न त्वेवं धर्मादिप्रदेशा, अत एव च नावयवास्तेऽभिधीयन्ते। तस्माद् भेदेनोपादानं प्रदेशावयवयोः, बह्ववयवं हि पुद्गलद्रव्यमवगन्तव्यम्, सङ्ख्येय-प्रदेशः स्कन्धोऽसङ्ख्येयप्रदेशोऽनन्तप्रदेशोऽनन्तानन्तप्रदेशश्च इति।
ननु चैकोऽपि परमाणुः पुद्गलद्रव्यमेव स कथं बह्ववयवो भवेत्? किमत्र प्रतिपाद्यम्?, ननु प्रसिद्धमेवेदम् एकरसगन्धवर्णो द्विस्पर्शश्चाणुर्भवति। भावावयवैः सावयवो द्रव्यावयवैर्निरवयव इति। तदुक्तं सिद्धान्ते
कविहे णं भंते भावपरमाणू पन्नत्ते ? गोयमा ! चउव्विहे भावपरमाणू पन्नते। तं जहा- वण्णमंते रसमंते गंधमंते फासमंते इति। (भ. सू. ६७०)
मतुबिह संसर्गे द्रव्यपरमाण्वपेक्षो वा तस्माद्वर्णाद्यवयवैर्बहुत्वं द्रव्याणोः। यच्च तत्तथा प्रयतते संयुज्यते वियुज्यते च ते इत्यादि कारणं तत्परमाणुद्रव्यम्। अत्राप्यापत्तिः स्पष्टा।
[५०] तथा द्वितीयं कायग्रहणे प्रयोजनमद्धा = समय: कायो न भवति। अद्धा चासौ समयश्चाद्धासमयः। स चार्द्धतृतीयद्वीपान्तवर्ती सामयिकः परमसूक्ष्मो निर्विभागस्तस्य न कायता, समुदायश्च कायशब्दवाच्य इति। पूर्वोक्तैव द्रव्यप्रस्तावे द्रव्यतामेकीयमतानुसारिणीम्। द्रव्यं च प्रदेश-प्रचितमवयवप्रचितं वा स्यादाशङ्कमानो न्यषेधीत्कायग्रहणात्कायतामद्धासमयस्य।
(शं) एवं तर्हि कायप्रतिषेधादनुत्पादविनाशः स्यात्समयस्तदभावाच्च ध्रौव्यमप्यपेयात्ततश्च मण्डूकजटाभारकृतकेशालङ्कारशृङ्गारान्वितवन्ध्यापुत्रखपुष्पमुण्डमालाद्याख्यानवत्समस्तमिदमनालम्बनं समयव्यावर्णनं स्यादिति, (स) उच्यते, नायं नियमो यत्कायशब्देनाक्षिप्यते तदेवोत्पादविनाशवद् नेतरन्न। (शं) कथं तर्हि प्रतिपत्तव्यमेवम्? (स) ननु यत्र कायशब्द उपात्तस्तत्रायमर्थोऽस्य यदुतोत्पादविनाशौ स्वरससिद्धावेव च कायशब्देन प्रकाश्येते, न पुनरभूतावपि शब्दसामर्थ्यात्सन्निधानं कल्पयतः। यत्र तु कायग्रहणं नास्ति तत्र स्वरससिद्धावेवोत्पादविनाशौ तत्सहचरितत्वाच्च ध्रौव्यमपीत्येतत्समस्तमेव द्रव्यप्रस्तावे प्रोक्तमेव।
[धर्मास्तिकायादिद्रव्याणां विशिष्टक्रमसन्निवेशप्रयोजनम्।
[५१] नन्वादौ षड्द्रव्यसूचकगाथायामादौ धर्मग्रहणस्य किं प्रयोजनम्? उच्यते, कारणसमुच्चयार्थः प्रशस्ताभिधानाद् धर्मग्रहणमादौ लोकव्यवस्थाहेतुत्वाद्विपरीतत्वादेकद्रव्यत्वाच्च अधर्मग्रहणमनन्तरं तत्परिच्छेद्यमाकाशं लोकत्वात्तदनन्तरममूर्तसाधर्म्याच्च जीवग्रहणम्, तदवगाढत्वात्तदनन्तरं पुद्गला इति विशिष्टक्रमसन्निवेशप्रयोजनमेतदेवमवसेयमिति॥४५॥४६॥
[प्रथमं द्रव्यलक्षणद्वारम्] [५२] अथ षड्द्रव्येषु एकादशद्वारावतरणाय प्रथमं सप्तश्लोकैर्द्रव्यलक्षणनिर्णयाय गाथाद्विकमाह[मूल] जीवादिवस्तुनो भावः स्वरूपं तत्त्वमेव हि। यत्सर्वथाविरोधेन व्याप्यव्यापकभावतः॥४७॥