________________
स्याद्वादपुष्पकलिका
एषामनन्तरोक्तानां मध्ये संसर्ग आद्रियते (गृह्यते)।
अत्र संसर्गमङ्गीकृत्य ध्रौव्यार्थप्रतिपत्तयेऽस्तिशब्दप्रक्षेपः। उत्पादविनाशौ हि ध्रौव्याविनाभूतौ संसृष्टौ ध्रौव्येण। अन्यथा हि ध्रौव्यात्मकताभावेऽन्वयिशून्यत्वादसन्निहितभवितृकत्वादुत्पादविनाशौ निर्बीजौ न स्याताम्। नापि ध्रुवता आविर्भावतिरोभावरहिता। ततस्त्र्यात्मकं वस्तु जैनेन्द्राणां बुद्धिव्यवस्थापितप्रविभागं प्रज्ञापनोपायत्वान्नरसिंहादिवद्, अतः कायशब्देनापत्तिरभिधित्सिता अस्तिशब्देन ध्रौव्यमिति।
[४५] (शं) कथं पुनः कायग्रहणादापत्तिरुद्रवप्रलयात्मिका प्रतीयते? इति, (स) उच्यते, प्रचीयमानाकारता हि कायः = समुदायः। स च विभागे सति भवति। विभक्ताश्च धर्मद्रव्यप्रदेशाः, न यत्रैकः स्थितो धर्मप्रदेशः तत्रापरोऽपि तत्प्रदेशः प्रतिष्ठित इति तेषां विभक्तानामसौं' परस्पराविच्छेदलक्षणः समुदायः सोऽवश्यन्तया तथोत्पन्नः समुदायशब्दवाच्यत्वात्। नन्वेवमादिमत्त्वं धर्मादीनां प्रसज्यते तन्त्वादिसमुदायवद्, उच्यते, तेऽपि हि नादिमन्तः पुद्गलद्रव्यस्यानेकशक्तित्वात्सा च शक्तिः शक्तिमतो भेदाभेदाभ्यामग्रे वक्ष्यते। यत्र चोत्पादस्तत्रावश्यं विनाशेन भवितव्यं तत्सहचारित्वात् च विनाशः पूर्वावस्थाप्रच्युतिलक्षणः समुदायादेवोन्नीयत इति।
[४६] अथवाधुना गतिपरिणतिभाजश्चैत्रस्य धर्मद्रव्यमुपग्रहं कुरुते तच्चोपग्रहकारितया प्रागजिगमिषति चैत्रे न व्यापारमगमदुत्तरकालं तु कोऽप्यतिशयः समुदपादि येन गतेरुपग्रहकृद्भवति कयापि विक्रियावस्थयेत्यतस्तेनाकारेणोत्पादः, समुपरतगतिव्यापारे च चैत्रे यो गत्युपग्रहव्यापारोऽभवत्तया तत्पुनरपैत्यतो विनाश एव। अधर्माकाशयोरपि स्थित्यवगाहनामुखेनोत्पादविनाशौ वाच्यावतः कायग्रहणात्सुगमः आपत्तिशब्दार्थ इत्यतोऽस्तिश्चासौ कायश्चेत्यस्तिकायः = ध्रुवश्चासावुत्पादविनाशवांश्चेत्यर्थः। धर्मश्चासावस्तिकायश्च धर्मास्तिकायः। एवमधर्माकाशावपीति। पुद्गलास्तिकाये तूत्पादव्ययध्रुवताः प्रत्यक्षैवास्ति प्रायः।
[४७] एवमेताँश्चतुरोऽप्यजीवान् सूत्रेण परिगणय्याह - तान्लक्षणतः पुरस्ताद् वक्ष्यामः (त.सू.भा.५-१) तान्धर्मादीनेतावतः परस्तादुपरि लक्षणतो गतिस्थित्युपग्रहावगाहशरीराद्युपकाररूपादिः पूर्वोक्तम्, इदं तूद्देशमात्रमारचितममुना सूत्रेण, अवश्यन्तया च पदार्थभेदमभ्युपेयता विविक्तमेव लक्षणमासञ्जनीयम्, अन्यथा दुरुपपादः स्यादतस्तान्प्रत्येकं लक्षणभेदेनाग्रे प्रतिपादनमुक्तमेव ।
[अस्तिकायपदे कायपदग्रहणस्य प्रयोजनम्।
[४८] अर्थ कायग्रहणं किमर्थमित्यत आह- कायग्रहणं प्रदेशावयवबहत्वार्थमद्धासमयप्रतिषेधार्थं चेति॥ (त.स.भा.५.१) नन च कायग्रहणस्य प्रयोजनं वर्णितमापत्तिः कायशब्दार्थ इति, सत्यमक्तम धर्मादीनामजीवता गम्यत एव, तस्मात्तस्योपादाने प्रयोजनमेषां धर्मादीनां प्रदेशबहुत्वमिष्यते। प्रकृष्टो देशः प्रदेशो निर्विभागः खण्डम् अनपायि स्वस्थानादनादिकालपरिणामापादिततथास्थितिः। तेषामेवंविधप्रदेशानां बहुत्वम्, धर्माधर्मयोः असङ्ख्येय-प्रदेशता प्रत्येकम्, आकाशस्यानन्तप्रदेशता प्रभूतार्थः । एवंविधासङ्ख्येयप्रदेशसमुदायो धर्मास्तिकायस्तथैव अधर्मास्तिकायः, आकाशमपि लोकपरिमाणमेतावत्प्रदेशसङ्ख्यम्। सकलाकाशं त्वनन्तप्रदेशमित्येवं समुदितिरूपत्वाद् गत्याधुपग्रहविक्रियापत्तिद्वारेण स्फुटैवापत्तिरिति।
१. यह ग्रंथ भाग भी त.सू.भा.सि उद्धरण है।, २. विभक्तप्रदेशानां योऽसौ। त.सू.भा., ३. त्रिसूत्र्यामेव। त.सू.भा ४. चैत्रे तया गत्युपग्रहव्यापारावस्थया। त.सू.भा, ५. प्रकाशा एव। त.सू.भा, ६. यह त.सू.भा.सि. का उद्धरण ही है। ७. रूपाद् वक्ष्यामः। त.सू.भा, ८. प्रतिपादयिष्यामः। त.सू.भा, ९. अभी त.सू.भा.सि उद्धरण वर्तमान है। १०. भाष्याक्षरानपेक्षम्, अधुना तमेवार्थं भाष्याक्षरैर्दर्शयति। विनापि कायग्रहणेन। त.सू.भा.सि ११. बहुत्वार्थः। त.सू.भा.सि.