________________
१६
स्याद्वादपुष्पकलिका
[आकाशास्तिकायः]
[४१] अवगाहरूपकार्यानुमेयमाकाशम्। (शं) अतो लोकाकाशं कथम्? इति चेद्, (स) अनवगाह्यत्वादिति उच्यते। तद्धि व्याप्रियेत एव अवकाशदानेन यदि गतिस्थितिहेतू धर्माधर्मौ तत्र स्याताम्, तत्र तदभावाद् विद्यमानोऽप्यवगाहनगुणो नाभिव्यज्यते अलोकाकाशत्वादिति।
[पुद्गलास्तिकायः]
[४२] तथा पूरणाद्गलनाच्च पुद्गलाः, संहन्यमानत्वाद्विसंहतिमत्त्वाद्वा, पुरुषं वा गिलन्तीति वा, पुरुषैर्गिलन्तीति' पुद्गलाः। मिथ्यादर्शनादिहेतुवर्तिनं मानुजं बध्नन्ति वेष्टयन्तीति गिरणार्थः। इतरत्रादानार्थो गिरतिः, पुरुषेणादीयन्ते कषाययोगभाजा कर्मतयेति पुद्गलाः ।
[४३] (शं) सत्यजीवत्वे कालः कस्मान्न निर्दिष्ट इति, (स) उच्यते, स त्वकीयमतेन द्रव्यमित्याख्यास्यते द्रव्यलक्षणप्रस्ताव एव। अमी पुनरस्तिकायव्याख्याने, न च कालोऽस्तिकाय एकसमयत्वादिति ।
[अस्तिकायपदे अस्तिपदकायपदयोः सार्थक्यविचारः ]
[४४] धर्मादीनां (धर्मादयः) कायग्रहणं च साक्षात्कृतं तदप्यजीवपदसम्बद्धं (भाष्यकारः) समानाधिकरण्यनिर्देशे सति धर्मादिभिः सह सङ्घटयति- प्रत्येकं धर्मास्तिकाया इति । इह अस्तिकायद्वारमाह = जानना ( ? )। ननु धर्मकाय इति भाव्यमेवमस्तिशब्दोऽन्तरालवर्ती कुतोऽतर्कितः पतितः ? इत्युच्यते ज्ञानशब्दयोर्निबद्धमुभयमर्थविदः प्रचक्षते स्वभावरूपमापत्तिरूपं च । तत्र प्रत्यस्तमितनिरवशेषविशेषण ( णः) स्वभावरूपः सर्वदाप्यविकार्यो येनांशेन ध्रौव्यव्यपदेशमनुतेऽसौ यथा चैतन्यमात्मनोऽकृत्रिमममूर्तत्वं वा, मूर्तत्वं वा पुद्गलद्रव्यस्य, धर्मादीनाममूर्तत्वं सकललोकव्यापितागत्याद्युपग्रहादिलक्षणानि च ध्रुवाण्येतानि। आपदनम् = आपत्तिः = आविर्भावतिरोभावौ वस्तु उत्पादविनाशाविति यावत्। तत्र मृन्मूर्तिरूपादिस्वभावमजहद्वस्तु घटकपालशकला-कारमास्कन्ददुत्पद्यत इति व्यपदिश्यते। यथा हि महतः सरसस्तरङ्गमालाः पटुमारुतवेगायासिताः प्रादुःष्यन्ति जलद्रव्यात्मिकाश्च ताः, एवं घटादयोऽपीति। तथा विनाशोऽपि घटाद्याकारप्रलयः कारणापेक्षः स्थूलतरङ्ग-सन्ततीनामिव स्तिमितवारितयावस्थानमुज्झितसमीरणप्रबलवेगसम्पर्काणाम्। इत्येवमुत्पादप्रलयध्रौव्यलक्षणः प्रवचनेऽस्त्यर्थः (प्रासिधत्)। तत्र (एतत्) त्रितयप्रदिदर्शयिषया(आचार्येणा) स्ति-शब्दोऽव्ययसञ्ज्ञः सकलधर्मादि-द्रव्यधौव्यप्रतिपादनायाकारि । कायशब्दस्तु तत्रोपात्त आपत्त्यर्थः । (शं) एवं तर्हि सूत्र एवोपादानमस्तिशब्दस्य न्याय्यं, विशिष्टार्थप्रतिपत्यर्थत्वात्, कायशब्दवत्, कायशब्दो वा तत्र नोपादेयस्तत एव हेतोरस्तिशब्दवदिति, (स) उच्यते, अन्यतरोपादाने ह्यत्रान्तरसम्प्रत्ययो भवतीत्यभिप्रायः सूरेः । संसर्गादीनि कारणानि शब्दस्य (अन्यस्य) सन्निधाने भवन्ति व्यवच्छेदे वा (च)।
=
संसर्गो विप्रयोगश्च साहचर्यं विरोधिता । अर्थ : प्रकरणं लिङ्गं शब्दस्यान्यस्य सन्निधिः ॥ सामर्थ्यमौचिती देश: कालो व्यक्तिः स्वरादयः । शब्दस्यार्थानव्यवच्छेदे विशेषस्मृतिहेतवः ॥ ( वा.प.२.३१५-३१६)
१. यहां पर गिलन्ति की जगह गिल्यन्ते पाठ होना चाहिए।
२. यहां पर इस प्रकार पाठ होना चाहिए - स स्वकीयमतेन द्रव्यमित्याख्यास्यते द्रव्यलक्षणप्रस्ताव एव । अत्र पुनरस्तिकायव्याख्यानम्।
३. इस परिच्छेद में और अग्रिम परिच्छेदों में वृत्त कोष्ठ में दिये गये पाठ तत्त्वार्थसूत्र और भाष्य की सिद्धसेनीय टीका के है। व्याख्याकार का यह विवरण अजीवकाया धर्माधर्माकाशपुद्गलाः (त.सू.५.१.) इस सूत्र और भाष्य की सिद्धसेनीय टीका का ही उद्धरण है। ४. इह अस्तिकायद्वारमाह जानना इस पंक्ति का अर्थ/संदर्भ स्पष्ट नहीं होता है।