SearchBrowseAboutContactDonate
Page Preview
Page 49
Loading...
Download File
Download File
Page Text
________________ स्याद्वादपुष्पकलिका [मूल] भवेज्जीवस्त्वेकविधः स्वनुयोगश्चतुर्विधः । द्रव्यचारित्रगणितसुधर्माः स्युर्जिनागमे॥४३॥ ( व्याख्या) जीव एकविध एव भवति स्वद्रव्यत्वाश्रयेन। जिनागमे सिद्धान्ते अनुयोगश्चरणकरणद्रव्यगणितधर्मैश्चतुःप्रकारोऽस्तीत्यर्थः । जीवति स्म स्वप्राणान्धारयतीति जीवः । एवं धर्मादिद्रव्याणामनुयोगौ यत्र स द्रव्यानुयोगः समवायाङ्गजीवाभिगमप्रज्ञापनादयः । तथा चरणकरणानुयोगौ आचाराङ्ग-निशीथ-बृहत्कल्पादयः। गणितानुयोगः चन्द्रप्रज्ञप्तिसूर्यप्रज्ञप्त्यादयः । धर्मकथानुयोगो ज्ञाताधर्मकथोपासकदशाङ्गान्तकृद्दशाङ्ग-विपाकादयः। वेदानुयोगान्विता विवाहप्रज्ञप्त्यादयः सन्तीति’॥४३॥ [ एकादशस्य क्षेत्रद्वारस्य उत्तरद्वाराणि ] = [३८] अथ क्षेत्रद्वारमाह [मूल] देशगः सर्वगश्चैव क्षेत्रोभयविधः स्मृतः । शिवोन्मितानि द्वाराणि लेशेनेत्थमचीकथन्॥४४॥ (व्याख्या) देशेत्यादि स्पष्टम् । इति एकादशद्वारोत्तराणि ॥४४॥ [द्रव्यविचारः ] [३९] अत्र प्रथमं द्रव्यविचारमाह [मूल] जीवाजीवस्वरूपश्च लोके राशिद्विकः स्मृतः। १५ धर्माधर्मा' अस्तिकायाः भवन्ति पुद्गलास्तथा॥४५॥ [मूल] सिद्धसंसारिभेदाभ्यां जीवस्तु द्विविधः स्मृतः । निजभावविभावाभ्यां भवेत्पर्यायभेदतः॥४६॥ (व्याख्या) लोके = भवे राशियुगेव भवति । जीवश्च अजीवश्च। तत्राजीवो धर्माधर्मा-म्बरपुद्गलास्तिकायैश्चतुर्विधो भवतीति। जीवः सिद्धसंसारिभेदेन द्विप्रकारोऽस्ति । सिद्धो जिनादिभेदेनानेकविधोऽस्ति। संसारिका एकेन्द्रियादिजात्यपेक्षया विविधा भवन्ति। एते भेदाः स्वभावविभावाभ्यां पर्यायभेदतो भवेद् बोद्धव्याः । कालस्तु जीवपुद्गलानां परावर्तकरूपोऽस्तीत्यनेनास्तिकायाभाव एवास्ति, मुख्यपर्यायरूपत्वादिति । अजीवानां काया अजीवकायाः । शिलापुत्रकस्य शरीरमित्यादावभेदेऽपि षष्ठी दृष्टा । तत्र कनकस्य अङ्गुलीयकम -(मित्य) न्यत्वाशङ्काव्यावृत्यर्थाय वा कर्मधारयसमासोऽभ्युपेयते। अजीवाश्च ते कायाश्चेत्यजीवकायाः । कायशब्द उपसमाधानवचनः। प्रदेशानामवयवानां च सामीप्येनान्योन्यानुवृत्त्या सम्यग् = मर्यादया धारणमवस्थानमुप-समाधानमिति। वा काया इवैते कायाः = शरीराणि यथा प्रदेशावयवत्वात् कायशब्दवाच्यान्येवमेतेऽपीति । अकृत-द्वन्द्वाश्चैते धर्मादयो निर्दिष्टाः । [धर्माधर्मास्तिकायौ] [४०] तत्र धर्मो वक्ष्यमाणगत्युपष्टम्भकार्यानुमेयः, स्थित्युपष्टम्भकार्यानुमेयोऽधर्मः । (शं) अत्रादृष्टौ धर्माधर्मौ शुभाशुभफलदायिनौ कस्मान्न गृह्येते ? (स) सत्यम्, उच्यते, द्रव्यप्रस्तावापन्नत्वाद् गुणत्वे सति तयोरप्रसङ्गः। अपि च जैनमते धर्माधर्मौ शुभाशुभफलप्रदौ मूर्तावेव पुद्गलात्मकत्वादतः पुद्गलग्रहणेनैव तयोर्ग्रहणमिति अत्र नास्ति तद्विषयं मनागिति। १. यहां 'विवहज्ञप्ति' की जगह विवाहप्रज्ञप्ति पाठ होना चाहिए, 'दयोऽस्तीति' की जगह 'दयः सन्तीति' पाठ होना चाहिये। २. इस गाथा का पूर्वार्ध इस तरह ज्यादा उचित प्रतीत होगा देशगं सर्वगं चैव क्षेत्रं हि द्विविधं स्मृतम्। ३. यह पाठ अशुद्ध प्रतीत होता है।
SR No.009265
Book TitleSyadvada Pushpakalika
Original Sutra AuthorN/A
AuthorCharitranandi,
PublisherShrutbhuvan Sansodhan Kendra
Publication Year2015
Total Pages218
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy