SearchBrowseAboutContactDonate
Page Preview
Page 48
Loading...
Download File
Download File
Page Text
________________ स्याद्वादपुष्पकलिका ३) क्षयोदीर्णस्या(उदीर्णस्य क्षयाद)नुदीर्णस्य चोपशमान्निर्वृत्तो मिश्रः = क्षायोपशमिकः। तत्र ज्ञानचतुष्कविभङ्गज्ञानचक्षरचक्षरवधिदर्शनानि देशविरतिः, सर्वविरतिः, क्षयोपशमिकसम्यक्त्वम्, दानादिलब्धिपञ्चकानि च क्षायोपशमिको भावः कालतः सादिसपर्यवसानोऽस्ति, अभव्यानामनाद्यपर्यवसानोऽस्ति। ४) उदयः शुभाशुभप्रकृतीनां विपाकतोऽनुभवनं तेन निवृत्त औदयिकः। तत्र नारकादीनां नरकगत्यादिरौदयिकभावः सादिसपर्यवसानः, मिथ्यात्वादिक औदयिक भावो भव्यानामनादिसपर्यवसानः। एष एवाभव्यानाम् अनाद्यपर्यवसितोऽस्तीति। ५) परि = समन्तान्नामनं = जीवानामजीवानां च जीवाजीवत्वादिस्वरूपानुभवनं प्रति प्रह्वीभवनं = परिणामस्तेन निर्वृतः पारिणामिकः पञ्चमः। तत्र पुद्गलास्तिकाये व्यणुकादिः पारिणामको भावः। स कालतः सादिसपर्यवसानः। भव्यत्वं भव्यानामनादिसपर्यवसानः। अत्र चतुर्भङ्गीस्थापना। (सादि-सपर्यवसानः, अनादिसपर्यवसानः, सादि-अपर्यवसानः, अनादि-अपर्यवसानः) ६) षष्ठमः सन्निपात इति। एतेषां सन्निपातैः= व्यादिसंयोगान्निष्पन्नः सान्निपातिकभावः षष्ठमोऽस्ति। स च षड्विंशतिधा। तत्र विकसंयोगाद्दशः। तथाहि- औपशमिकक्षायिक- औपशमिकक्षायोपशमऔपशमिकऔदयिक-औपशमिकपारिणामिक-क्षायिकक्षायोपशमिक-क्षायिकऔदयिक-क्षायिकपारिणामिकक्षायोपशमऔपशमिक-क्षायोपशमपारिणामिक-औदयिकपारिणामिकाः। त्रिकसंयोगादश औपशमिकक्षायिकक्षायोपशमिक-औपशमिकक्षायिकऔदयिक-औपशमिकक्षायिकपारिणामिक-औपशमिकक्षायोपशमऔदयिक-औपशमिकक्षायोपशमिकपारिणामिक-औपशमिकऔदयिकपारिणामिक-क्षायिकक्षायोपशमिकऔदयिक-क्षायिकक्षायोपशमिकपारिणामिक-क्षायिकऔदयिक-पारिणामिकक्षायोपशमिकऔदयिकपारिणामिकाः। ___ चतुःसंयोगिकाः पञ्च औपशमिकक्षायिकक्षायोपशमिकऔदयिक-औपशमिकक्षायिकक्षायोपशमिकपारिणामिक-औपशमिकक्षायोपशमिकऔदयिकपारिणामिक-क्षायिकऔपशमिकऔदयिकपारिणामिकक्षायिकक्षायोपशमिकऔदयिकपारिणामिकाः। पञ्चसंयोगिक एकः-औपशमिकक्षायिकक्षायोपक्षमिक-औदयिकपारिणामिकः। एकत्वे सन्निपातो न भवति, द्विकादि-संयोगाभावादिति॥३७॥ [३६] अथैतद्गाथापञ्चकमाह[मूल] कैवल्यदर्शनज्ञानं तथा क्षायिकदर्शनम्। क्षयान्तरायचारित्रखगाः सन्त्युत्तराणि च॥३८॥ [मूल] शमदर्शनचारित्रौ युगलोपशमो भवेत्। ज्ञानाम्बुनिध्यज्ञानानि त्रिदर्शन-गृहस्थकाः॥३९॥ [मूल] संयमी मिश्रसम्यक्त्वदानादिशरलब्धयः। मिश्रभावोत्तरा भेदा भवन्त्यष्टादश श्रुतौ॥४०॥ [मूल] कषायसंयमज्ञानलेश्यासिद्धचतुर्गतिः। वेदमिथ्यात्वोत्तराः स्युरेकविंशतिधोदयः॥४१॥ [मूल] जीवभव्याभव्यभेदैः परिणामस्त्रिधा भवेत्। इमान्युत्तरभेदानि भावानां प्रविनिर्ममे॥४२॥ [नवमस्य जीवद्वारस्य दशमस्य अनुयोगद्वारस्य च उत्तरद्वाराणि] [३७] अथ जीवानुयोगद्वारगाथामाह १. इमे चोत्तरभेदा हि यह पाठ अधिक संगत है।
SR No.009265
Book TitleSyadvada Pushpakalika
Original Sutra AuthorN/A
AuthorCharitranandi,
PublisherShrutbhuvan Sansodhan Kendra
Publication Year2015
Total Pages218
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy