SearchBrowseAboutContactDonate
Page Preview
Page 47
Loading...
Download File
Download File
Page Text
________________ स्याद्वादपुष्पकलिका १३ पर्यायान्तरमनपेक्षकः समभिरूढः। तदुक्तं विशेषावश्यकेजं जं सण्णं भासइ तं तं चिय समभिरोहइ जम्हा। सण्णंतरत्थविमुहो तओ नयो समभिरूढो त्ति॥ (वि.आ.भा.२२३६)॥३४॥ [एवम्भूतनयविचारः] [३३] अथ एवम्भूतस्वरूपनिरूपणार्थं गाथामाह[मूल] एवं यथा शब्दभावः शब्दार्थेषु व्यवस्थितः। यत्प्रवृत्तिस्तत्तथैव सैवम्भूतो निगद्यते॥३५॥ (व्याख्या) तदुक्तं भाष्येएवं जह सद्दत्थो संतो भूतो तदन्नहाभूओ। तेणेवंभूअनओ सद्दत्थपरो विसेसेणं॥ (वि.आ.भा.२२५१) एवम् = अमुना प्रकारेण यथा 'घट चेष्टायाम्' इति शब्दार्थे व्यवस्थितः (तहत्ति) तथैव यः प्रवर्तते घटाद्यर्थ एवं = सन् भूतो = विद्यमानः। तदन्नहाभूओ त्ति। तदन्यथा = शब्दार्थोल्लङ्घनेन वर्तते स तत्त्वतो घटाद्यर्थोऽपि न भवति, किन्त्वभूतोऽविद्यमानः। येनैवं मन्यते तेन कारणेन शब्दनयसमभिरूढाद(भ्याम्) एवम्भूतो विशेषेन शब्दार्थतत्परः। अयमेवम्भतो योषिच्छिरःस्थितजलाहरणादिक्रियान्वितं चेष्टमानमेव घटं मन्यते, न तु गृहकोणस्थितम्। विशेषतः शब्दार्थतत्परोऽयमिति।। इति नयद्वारम्॥३५॥ [सप्तमस्य प्रमाणद्वारस्य उत्तरद्वाराणि] [३४] चकारात्प्रमाणद्वारगाथामाह[मूल| परोक्षप्रत्यक्षाभ्यां च प्रमाणं द्विविधं स्मृतम्। परोक्षमिन्द्रियज्ञानं प्रत्यक्षं स्यादनिन्द्रियम्॥३६॥ (व्याख्या) प्रमाणं युगविधं परोक्षं प्रत्यक्षं चेति। परोक्षेत्यादि। तत्रेन्द्रियोद्भवं ज्ञानं परोक्षं मतिश्रुतम्, अनिन्द्रियज्ञानं प्रत्यक्षं तदवध्यादित्रिप्रकारं भवतीत्यर्थः। शेषं स्पष्टम्।। इति प्रमाणद्वारम्॥३६॥ [अष्टमस्य भावद्वारस्य उत्तरद्वाराणि] [३५] अथ भावद्वारगाथामाह[मूल] क्षायिकोपशममिश्रपरिणामोदयस्तथा। षष्ठमः सन्निपातश्च भावाः सन्ति जिनागमे॥३७॥ (व्याख्या) १) कर्मक्षयादुत्पन्नो यः स क्षायिकः। तत्र क्षायिकं चारित्रं दानादिलब्धिपञ्चकं क्षायिको भावः कालतः सादि-स(अ)पर्यवसितः। क्षायिकानि ज्ञानदर्शनसम्यक्त्वानि कालतः साद्यपर्यवसितः(तानि)। २) उपशमः कर्मविपाकप्रदेशरूपतया द्विविधस्याप्युदयस्योपशमनं तेन निर्वृत्त औपशमिकः सम्यक्त्वादिः सादिसपर्यवसानः। १. यहां पर अवध्यादिस्त्रिप्रकारो भवति की जगह त्रिप्रकारं भवति यह पाठ होना चाहिए। २. इस अर्थघटन से ऐसा प्रतीत होता है कि- क्षायिक भाव का चारित्र और दानादि पांच लब्धि यह छह क्षायिक भाव सादि सांत है तथा क्षायिक ज्ञान, क्षायिक दर्शन, क्षायिक सम्यक्त्व यह तीन क्षायिक भाव सादि अनंत है। यह बात विचारणीय है।
SR No.009265
Book TitleSyadvada Pushpakalika
Original Sutra AuthorN/A
AuthorCharitranandi,
PublisherShrutbhuvan Sansodhan Kendra
Publication Year2015
Total Pages218
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy