________________
स्याद्वादपुष्पकलिका
(वि.आ.भा.२२२३) अतः प्रवृत्तिमन्तरेण कालत्रिकस्य न वस्तुत्वम्। कथम्? भूतकालस्यातीतेनागामिकस्यानागतेन च साम्प्रतं यद्वर्तते वर्तमानं तस्यैव वस्तुत्वम्। अतीतस्य कारणभावेन अनागतस्य कार्यभावेन जन्यजनकभावेन यो वर्तते स ऋजुसूत्रो वर्तमानग्राहक इत्याशयः॥३०॥
शब्दनयविचारः] [३०] अथ शब्दनयस्वरूपोत्पादकगाथाद्वयमाह[मूल] सुवाच्यार्थग्राहकेन तत्समः स्वक्रियान्वितः। भावनिक्षेपमादृत्य द्रव्ये शब्दनयो भवेत्॥३१॥ [मूल] आविर्भावतिरोभावैरनेकधर्मसंयुतः। सप्तभङ्ग्यनुयोगेन वदेच्छब्दनयः श्रुतौ॥३२॥
(व्याख्या) द्रव्ये भावनिक्षेपकमपेक्ष्य सद्वाच्यार्थग्राहकेन तत्सदृशो यः स्वक्रियान्वितः स शब्दनयो भवेदिति। कथम्भूतः शब्दनयः? आविर्भावतिरोभावैर्विविधधर्मसमन्वितः श्रुतौ सप्तभङ्ग्यनुयोगेन = स्याद्वादभावेन शब्दनयो वदेदित्यर्थः। 'शप् आक्रोशे' शपनम् आह्वानमिति, शपतीति वा आह्वयतीति शब्दः, शप्यते आहूयते वस्तु अनेनेति शब्दः। (तस्य) शब्दस्य यो वाच्योऽर्थस्तत्परिग्रहात् तत्प्रधानत्वान्नयः शब्दः। यथा कृतकत्वादित्यादिकः पञ्चम्यन्तः शब्दोऽपि हेतुः अर्थरूपं कृतकत्वमनित्यत्वगमकत्वान्मुख्यतया हेतुरुच्यते, उपचारतस्तु तद्वाचकः कृतकत्वशब्दो हेतुरभिधीयते। एवमिहापि शब्दवाच्यार्थपरिग्रहादुपचारेण नयोऽपि शब्दो व्यपदिश्यते इति भावः। यथा ऋजूसूत्रनयस्याभीष्टं प्रत्युत्पन्नं वर्तमानं तथैवेच्छत्ययं शब्दनयः। (यद् यस्मात्) पृथुबुध्नोदरकलितं मृन्मयं लिप्तमभीष्टजलाहरणादिक्रियाक्षमं प्रत्यक्षघटरूपं भावघटमिच्छति, न तु शेषान्नामस्थापनाद्रव्यरूपान् त्रीन्घटानिति। शब्दार्थप्रधानो ह्येष नयश्चेष्टालक्षणयुक्तश्च घटशब्दार्थः। 'घट चेष्टायाम्', 'घटत इति घटः'। अतो जलाहरणादिक्रियां कुर्वन् घट इति। अतो नामाद्यब्धिनिक्षेपयुक्तर्जुसूत्राच्छब्दो विशेषिततरं वस्तु इच्छति। शब्दो भावघटमभिप्रैति, ऋजुसूत्रः सामान्यघटमभ्युपैति। शब्दस्तु सद्भावासद्भावादिभिर्विविधधर्मान्वितपूर्वोक्तसप्तभङ्ग्यनुसारेणैव भावघटमिच्छतीत्याशय इति॥३१॥३२॥
[३१] अथ शेषनयविचारान्वितामिमां गाथामाह[मूल] प्रत्येकमेकभेदोऽस्ति श्रुतौ शब्दनयादयः। पर्यायार्थिकमन्येऽत्र वदन्ति ऋजुसूत्रकम्॥३३॥
(व्याख्या) श्रुतौ = सिद्धान्ते शब्दादिकानां नयानां प्रत्येकमेकैक एव भेदो भवति। अन्ये जिनभद्रगणिक्षमाश्रमणाद्याचार्या ऋजुसूत्रनयं पर्यायार्थिकं वदन्तीत्यर्थः॥३३॥
__ [समभिरूढनयविचारः] [३२] अथ समभिरूढनयलक्षणमाह[मूल] सज्ञान्तरार्थविमुखो भवेत्समभिरूढकः। सर्वभावेषु या सज्ञा तां तामेव वदेद् ध्रुवम्॥३४॥
(व्याख्या) सज्ञामित्यादि। स एवम्भूतो निगद्यते। समभिरूढो यां यां सञ्ज्ञां लक्षणेन गदति तां तामेव वदति। ततः सज्ञान
स समभिरूढः विविधार्थे वाच्ये विविधं नाम एव भाषते योकपर्यायवाच्ये समग्रपर्यायवाचकः स्यात्तदा पर्यायाणां सङ्करेण वस्तुसङ्करः स्यादेव। अतः सङ्करदोषनिवारणाय
१. प्रत्येकमेकैकभेदाः यह पाठ अधिक संगत लगता है।