________________
स्याद्वादपुष्पकलिका
११
[मूल] सद्भूतकेतराभ्यां च अशुद्धोऽपि भवेद् द्विधा।
असद्भूतोऽपि द्विविधः स्यात्संश्लिष्टेतरेण च॥२६॥
(व्याख्या) व्यवहारनयः शुद्धाशुद्धाभ्यां द्विविधो भवति । तत्रापि शुद्ध द्विविधो वस्तुगतसाधनाभ्यामस्ति। तथा सद्भूतकासद्भूतकाभ्यामशुद्धोऽपि द्विविधोऽस्ति । च = पुनः । असद्भूतोऽपि संश्लिष्टासंश्लिष्टेन द्विविधो भवेदिति
॥२५॥२६॥
[२७] [मूल]व्यवहारो युगं स्याद्वा विभजनप्रवृत्तितः ।
प्रवृत्तिस्त्रिविधा ज्ञेया वस्तुसाधनलौकिकात्॥२७॥ [मूल] लोकोत्तरा लौकिका च कुप्रावचनिका तथा । साधना त्रिविधा प्रोक्ता विशेषावश्यकागमे॥ २८ ॥
(व्याख्या) अथवा व्यवहारो विभजनप्रवृत्तितः द्विविधोऽस्तीति । तथा प्रवृत्तिरपि वस्तुसाधनला त्रिविधा ज्ञेया। तत्र साधन(प्रवृत्तिः) लोकोत्तर- लौकिक-प्रावचनिका त्रिविधा ज्ञेयेत्यर्थः । तदुक्तं विशेषावश्यकेववहरणं ववहरए स तेण वऽवहीरए व सामन्नं । ववहारपरो व जओ विसेसओ तेण ववहारो ॥ (वि.आ.भा.२२१२)
व्यवहरणं = व्यवहारः, व्यवहरति स वा व्यवहारः, विशेषतो अवहियते = निराक्रियते सामान्यमनेनेति व्यवहारः, लोकव्यवहारपरो वा विशेषतो यस्मात्तेन व्यवहारः । न व्यवहारस्य स्वधर्मप्रवृत्तिस्तेन ऋते सामान्यमिति स्वगुणप्रवृत्तिरूपव्यवहारस्य वस्तुत्वम्, तमन्तरेण तदभावादिति॥२७॥२८॥
[ व्यवहारनयस्य षड् भेदाः ]
[२८] [मूल] ग्रन्थान्यस्मिन् शुद्धशुभोपचरितेतरैस्तथा। व्यवहारो रसविधो भवेत्तज्ज्ञानुसारतः॥२९॥ (व्याख्या) अन्यस्मिन्ग्रन्थे = ग्रन्थान्तरे तज्ज्ञानुसारतः = प्रौढानुसारेण शुद्ध - अशुद्ध-शुभ-अशुभ- उपचरितअनुपचरितभेदेन व्यवहारो रसविधः = षड्विधो भवेदित्यर्थः॥२९॥
[ऋजुसूत्रनयविचारः]
[२९] अथ ऋजुसूत्रनयविचारगाथामाह
[मूल] प्रवृत्तिकालमादृत्य ऋजुसूत्रनयो भवेत्। नामाद्यब्धिप्रकारेण मत्या द्रव्येषु योजयेत्॥३०॥
(व्याख्या) प्रवृत्तिकालं = वर्तमानकालमपेक्ष्य मत्या= बुद्ध्या नामाद्यब्धिप्रकारेण = नामस्थापनाद्रव्यभावभेदेन द्रव्येषु बोधरूपो यः स ऋजुसूत्रनयो भवेदित्यर्थः । यत् साम्प्रतमुत्पन्नं वर्तमानकालीनं वस्तु तच्च यस्य प्रत्येकमात्मीयं तदेव तदुभयस्वरूपं वस्तु प्रत्युत्पन्नमुच्यते। तदेवासौ नय ऋजु प्रतिपद्यते। तदेव च वर्तमानकालीनं वस्तु तस्यर्जुसूत्रस्यास्ति। तदुक्तं विशेषावश्यके
पच्चुप्पन्नं संपयमुप्पन्नं जं च जस्स पत्तेयं। रिजुतयेव तस्सत्थि उ वक्कमन्नंति तमसच्च ॥
१. यहां पर 'लोकोत्तरा लौकिकश्च कुप्रावचनिकस्तथा' की जगह 'लोकोत्तरा लौकिका च कुप्रावचनिका तथा' पाठ अधिक युक्त लगता है।
२. यहां पर न व्यवहारा इत्यादि पंक्ति नयचक्रसार से ली गई है, जो स्वयं अशुद्ध है उसका संशोधन करके अर्थ किया जाता है- न व्यवहारस्य घटत्वादिस्वधर्मप्रवर्तितेन (विशेषेण) ऋते सामान्यम् ।
३. जमसंतं इति मु.।