SearchBrowseAboutContactDonate
Page Preview
Page 44
Loading...
Download File
Download File
Page Text
________________ स्याद्वादपुष्पकलिका (व्याख्या) सम् = सम्यक्प्रकारेण गृह्णातीति सङ्ग्रहः। स सामान्यविशेषाभ्यां द्विप्रकारोऽस्ति प्रोक्तः = कथितः। तथा सामान्यो मूलोत्तरभेदाद् द्विप्रकारोऽस्ति स्मृतः = कथितः। तत्र मूलोऽस्तित्व-वस्तुत्व-द्रव्यत्व-प्रमेयत्व-सत्त्वागुरुलघुत्वैः षड्भेदोऽस्ति। उत्तरस्तु स्वसमुदायभावमपेक्ष्य विविधप्रकार: कथितः। जातितो भिन्नरूप-कादित्यर्थः ॥२२॥२३॥ [सङ्ग्रहनयस्य चत्वारो भेदाः] [२५] अथवा सङ्ग्रहश्चतुर्विधो ग्रन्थान्तरादाह[मूलवा व्यतिरेकानुगमसगृहीतसुपिण्डिताः। सङग्रहः स्याच्चतर्भेदो विशेषावश्यकागमात॥२४॥ (व्याख्या) अथवा सङ्ग्रहो व्यतिरेकानुगम-सङ्ग्रहीत-सुपिण्डितैश्चतुर्विधो विशेषावश्यकेऽस्तीत्यर्थः। १) सङ्ग्रहणं सामान्यरूपतया सर्वभावानामाक्रोडनं सङ्ग्रहः। २) अथवा सामान्येन समग्रं सङ्ग्रह्णातीति सङ्ग्रहः। ३) वा सर्वेऽपि भेदाः सामान्येन सङ्गृह्यन्तेऽनेनेति सङ्ग्रहः। ४) वा सङ्गृहीतं पिण्डितं तदेवार्थोऽभिधेयं यस्य तत्स सङ्ग्रहीतपिण्डितार्थः। तदुक्तं विशेषावश्यकेसंगहणं संगिण्हइ संगिझंते व तेण जं भेया। तो जो संगहो त्ति संगहियपिंडियत्थं वओ जस्स॥ (वि.आ.भा.२२०३) एवम्भूतं वचो यस्य सङ्ग्रहस्येत्याशयः। अत्र सङ्ग्रहस्य व्यतिरेकादिगर्भितविशेषावश्यकगाथामाहसंगहियमागहियं संपिडियमेगजाइमाणीयं। संगहियमणुगमो वा वइरेओ पिंडियं भणियं॥ (वि.आ.भा.२२०४) इति। १) सामान्याभिमुखेन ग्रहणं सगृहीतसङ्ग्रहः। २) पिण्डितमेकजातिमानीतमभिधीयते पिण्डितसङ्ग्रहः, 'एगे आया' इत्यादिवत्। ३) सर्वव्यक्तिषु अनुगतस्य सामान्यस्य प्रतिपादनमनुगमसङ्ग्रहोऽभिधीयते, 'सच्चिन्मयो आत्मा' इत्यादिवत्। ४) व्यतिरेकस्तदितरधर्मनिषेधात् ग्राह्यधर्मसङ्ग्राहकः व्यतिरेकसङ्ग्रहः प्रोच्यते। यथा 'अजीव' इत्युच्चारिते जीवनिषेधेन कस्यापि जीव[स्य] सङ्ग्रह एव जाते(तो)ऽस्ति । अतो व्यतिरेकादयश्चत्वारः सङ्ग्रहभेदाः सन्तीत्यर्थः॥ इति सङ्ग्रहः॥२४॥ [व्यवहारनयस्य द्वौ भेदौ] [२६] अथ व्यवहारनयस्य भेदद्वारगाथाचतुष्कमाह[मूल| शुद्धाशुद्धप्रभेदाभ्यां व्यवहारो युगः स्मृतः। वस्तुगतसाधनाभ्यां शुद्धः स्याद् द्विविधः श्रुतौ॥२५॥ १. यहां पर इस प्रकार का पाठ होना चाहिये यथा जीव इत्युच्चारितेऽजीवनिषेधेन कस्यापि जीवस्य सङ्ग्रह एव जातोऽस्ति।
SR No.009265
Book TitleSyadvada Pushpakalika
Original Sutra AuthorN/A
AuthorCharitranandi,
PublisherShrutbhuvan Sansodhan Kendra
Publication Year2015
Total Pages218
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy