Book Title: Sutrakritang Sutra Dipika Pratham Vibhag Author(s): Harshkulgani Publisher: Jinshasan Aradhana Trust View full book textPage 6
________________ সবা दीपिका A प्रथमश्रुतस्कन्धस्य प्रथमाध्ययने प्रथमोदेशकः। स्वीक्रियत एव, तस्किमिति परमतमाश्रित्य सूत्रमिदमुच्यते ! इत्याशङ्कायामाह-'संति 'ति-'सन्ति' विद्यन्ते जीवाः शरीरं यावत् , शरीराभावे तु न सन्ति, एतदेवाह-'पिच्चा न ते संति' प्रेत्य' परलोके ते जीवा न सन्ति, तेषां मते शरीराद्भिन्नः परलोकयायी न कश्चिदात्मारूपः पदार्थोऽस्तीति जैनेभ्यो भेदः । किमित्येवं ते मन्यन्त इत्याह-'पस्थि सत्तोववाइआ' औपपातिका-भवाद्भवान्तरगामिनः सन्चाः प्राणिनो 'नथि 'ति न संति । ननु भूतवादिनोऽस्य च तज्जीव-तच्छरीरवादिनः को भेद ? इत्यत्रोच्यते-भूतवादिनो भूतान्येव कायाकारपरिणतानि धावनचलनादिक्रियां कुर्वन्ति, अस्य तु कायाकारपरिणतेभ्यो भतेभ्यश्चेतनाख्य आत्मोत्सयते अभिव्यज्यते वा तेभ्यश्वामिन इत्यनयोर्विशेषः ॥ ११ ॥ तन्मतमेवाह नत्थि पुण्णे व० x x x (सू०) ॥ १२ ॥ व्याख्या-नास्ति पुण्यं पापं च नास्ति, अतो [नास्ति] अस्माल्लोकात् परोऽन्यो लोकः परलोको, यत्र पुण्यपापानुभव इति । अत्र हेतुमाह-शरीरस्य विनाशेन ‘देहिन' आत्मनोऽपि विनाशोऽभावो भवति तथा च दयते तन्मतलेशो, यथास्वभावादेव जगद्वैचित्र्यं, यदुक्तम्-"कण्टकस्य च तीक्ष्णत्वं, मयस्य विचित्रना। वर्णाश्च ताम्रचूडानां, स्वभावेन भवन्ति हि ॥१॥" इति ॥ १२ ॥ अयाक्रियावादिमाह कुव्वं च० x x x (सू०)॥१३॥Page Navigation
1 ... 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56