Book Title: Sutrakritang Sutra Dipika Pratham Vibhag
Author(s): Harshkulgani
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 4
________________ दीपिका। प्रथमश्रुतस्कन्धस्य प्रथमाध्ययने प्रथमो. द्देशकः। व्याख्या-सन्ति पञ्चमहाभूतानि इहास्मिल्लोके 'एकेषां' भूतवादिनामाख्यातानि-तचार्थकतानि, तैर्वा भूतबादि भिर्नास्तिकैराख्यातानि स्वयमङ्गीकृतानि परेषां च प्रतिपादितानि, चामूनि 'पुढवी' त्यादि पृथ्वी १ अपो-जलं २ तेजोअग्निः ३ वायुः ४ आकाशं ५ पञ्चमं येषां तानि । ननु साङ्ख्यादिभिरपि भूतानि मन्यन्त एव तत्कथं चार्वाकमतापेक्षयैव भूतोपन्यास इति चेदुच्यते-साङ्ख्यादिभिईि प्रधानाहकारादिकं तथा कालदिगात्मादिकं चान्यदपि वस्तुजातमङ्गीक्रियते, चार्वाकैस्तु भूतव्यतिरिक्तं नात्मादि किञ्चिन्मन्यते इति तन्मताश्रयेणैवायं सूत्रोपन्यास इति ॥७॥ चार्वाकमताङ्गीकारमेवाह एते पंच० x x x (सू०)॥८॥ व्याख्या-एतानि पश्च महाभूतानि 'तेभ्यो' भूतेभ्यः कायाकारपरिणतेभ्य एकः कश्चिचिद्रूपो भूताऽव्यतिरिक्त आत्मा भवति, न तु कश्चिदपरः परलोकयायी जीवाख्यः पदार्थोऽस्तीत्येवमाख्यातवन्तस्ते । ननु यदि भूतेभ्योऽन्यः कश्चिदात्मा नास्ति कथं तर्हि मृत इति व्यपदेश इत्याशङ्कायामाह-' अह तेसिं 'ति, अथ तेषां भूतानां विनाशेऽपगमे देहिनो देवदत्तादेविनाशो भवति, ततश्च मृत इत्युच्यते, न पुनर्जीवापगम इति । अत्रैतन्मतनिर्लोठनयुक्तयो वृत्तितोऽवसे याः ॥ ८॥ अथ एकात्माद्वैतवादमुद्दिश्याह जहा य० x x x (सू०) ॥९॥ व्याख्या-यथा, च शब्दोऽपि शब्दार्थे, स च भिन्नः पृथिव्याः स्तूपः पृथिव्येव वा स्तूपः पृथिवीसचाताख्योऽ.

Loading...

Page Navigation
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 ... 56