Book Title: Sutrakritang Sutra Dipika Pratham Vibhag
Author(s): Harshkulgani
Publisher: Jinshasan Aradhana Trust
View full book text
________________
सूत्रकृता
प्रथमचुत
दीपिका।
प्रथमाध्ययने द्वितीयोदेशका
अंधो अंधं० x x x (सू०)॥ १९ ॥ व्याख्या-यथाऽन्धः स्वयमन्यमन्धं पन्थानं नयन् 'दमधानं' वाञ्छितमार्गादन्यं दूरं मागं गच्छति । तथा 'उत्पथ' उन्मार्गमापद्यते 'जन्तुः प्राणी अन्धः । अथवा परं पन्थानमनुगच्छेन वाञ्छितम् ॥ १९ ॥ दार्शन्तिकमर्थमाह
एवमेगे० x x x (सू०)॥२०॥ व्याख्या-' एवं ' पूर्वोक्तार्थेन एके भावमूढा 'नियागो' मोक्षः सद्धर्मों वा, तदर्थिनस्ते किउ वयं धर्माराधका इति जानन्तो अधर्म पापमेव 'आपोरन् ' प्राप्नुवन्ति । तथा तेऽसदनुठाना आजीविकादयो गोपाल कमतानुसारिणोऽज्ञानवादप्रवृत्ताः । सर्वथा ऋजुः 'सर्वर्जुः' संयमः सुधर्मों वा, तं न बजेयुन गच्छन्ति, न प्राप्नुवन्तीत्यर्थः। अया सर्वर्जुकं' सत्यं अज्ञानान्धा न वदेयुः ॥ २०॥ दूषणान्तरमाह
एवमेगे० x x x (सू०) ॥ २१॥ व्याख्या-' एवं ' पूर्वोक्तनीत्या 'एके'ऽजानवादिनो 'वितर्काभि'र्मीमांसाभिः समतिकल्पनाभिः परमन्यं जैनादिकं न पर्युपासते न सेवन्ते, स्वमतमेव श्रेय इति ज्ञात्वा तदेव सेवन्ते, नान्यं ज्ञानादिवादिनं, तथा 'अप्पणोति आत्मीयवितर्कः सविचारैरयमस्मदीयो मागों ' मन्जु' निर्दोषत्वाद् व्यक्तः स्पष्टः ऋजुर्वा प्रगुणोऽकृटिलः हिर्यस्माचे दुर्मतयस्तत एवमाहुः ॥ २१ ॥ पुनस्तेषामेव दोषमाह

Page Navigation
1 ... 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56