Book Title: Sutrakritang Sutra Dipika Pratham Vibhag
Author(s): Harshkulgani
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 20
________________ बनाता दीपिका। प्रथमश्रुतस्कन्धस्य प्रथमाध्ययने द्वितीयो. द्देशकः । जाणं कारणऽट्टी० x x x (सू०)॥ २५ ॥ व्याख्या-जानन् यः प्राणिनो हिनस्ति ' कायेन' शरीरेण चा'ऽनाकुट्टी' अहिंसका, कोऽर्थः ? कोपादेनिमित्तान मनोव्यापारेण जीवान् हन्ति, न कायेन, तस्यानवयं, कर्मोपचयो न स्यादित्यर्थः। तथाऽबुधोऽजानन् कायेन हिनस्ति तस्यापि मनोव्यापारामावान कर्मबन्धः 'पुट्ठो'त्ति तेन कर्मणाऽसौ केवलमनोव्यापारकृतेन केवलकायक्रियोत्थेन वा स्पृष्ट एव वेदयति, स्पर्शमात्रेणैव तत्कर्मानुभवति, न तस्याधिको विपाकः, स्पर्शानन्तरमेव परिशटतीत्यर्थः ॥ २५ ॥ एवं तत्सावा कर्म अव्यक्तमेव, न स्पष्टं, कथं तर्हि कर्मोपचयः स्यादित्याह ___ संतिमे तउ० x x x (सू०) ॥ २६ ॥ व्याख्या-सन्त्यमूनि त्रीणि 'आदानानि ' कर्मोपादानि, यैः पापकर्म क्रियते, तान्याह-' अभिक्रम्य' सन्मुखं गत्वा स्वयं हन्ति १, परं प्रेष्य यत्कारयति २, कुर्वन्तं वा मनसाऽनुजानीते ३, एतत्कर्मोपादानत्रयम् । अयम्भावः-केवलं मनसा शरीरेण वा न कर्मबन्धः, किन्तु यत्र स्वयं कृतकारिताऽनुमतयः क्लिष्टाध्यवसायश्च तत्रैव कर्मबन्धः ॥ २६ ॥ एतदेव दर्शयति एए उ तउ० x x x (सू०) ॥ २७ ॥ व्याख्या-तुरवधारणे, एतान्येव त्रीणि व्यस्तानि समस्तानि कर्मादानानि, यैः पापं कम क्रियते । एवं सति यत्र W ॥१०॥

Loading...

Page Navigation
1 ... 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56