Book Title: Sutrakritang Sutra Dipika Pratham Vibhag
Author(s): Harshkulgani
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 27
________________ .. सए सए० x x x (सू०) ॥१४॥ व्याख्या-ते कृतवादिनः स्वके स्वके 'उपस्थाने संयमावऽनुष्ठाने 'सिद्धिं' मोक्षममिहितवन्तो, नान्यथा, तथा सिद्धिप्राप्तेरधः प्रागपि 'वशवी' वश्येन्द्रियः स्यात् , अस्मन्मताश्रितः सांसारिकैः स्वभावैर्नामिभ्यते सर्वे 'कामा' अभिलाषा 'समर्पिता: सम्पमा यस्य स सर्वकामसमर्पितः, इहलोके इदृशः स्यात् । परलोके च मोक्षं यायात् इत्यर्थः॥१४॥ एतदेवाह सिद्धा य ते. x x x (सू०)॥१५॥ व्याख्या-तेऽस्मन्मताश्रिताः सिद्धाश्चारोगाश्च स्युः । अरोगग्रहणात् शारीरमानसानेकदुःखरहिताश्चेति ज्ञेयं । इहास्मिल्लोके एकेषां शैवादीनामिदमाख्यातं ते हि 'सिद्धिं 'मुक्तिमेव पुरस्कृत्याङ्गीकृत्य 'स्वाशये' स्वमतानुरागे 'अथिताः' सम्बडा नराः प्राकृतपुरुषाः पतिंमन्या इवेत्यर्थः ॥ १५ ॥ एतद्रणायाह असंवुडा० x x x (सू०)॥ १६ ॥ तिबमि व्याख्या-ते पाखण्डिनस्तत्वतोऽसंवृता अनादिकं संसार पुनः पुनर्प्रमिष्यन्ति, यदि कथञ्चित्तेषां स्वर्गावाप्तिस्तथाऽपि 'कल्पकालं' बहुकालं उत्पद्यन्ते सम्भवन्त्यासुराः, असुरस्थानोत्पमा अपि न प्रधानाः, किं तर्हि ? 'किस्विपिका' अधमा एवेति ॥ १६ ॥ ब्रवीमीति पूर्ववत् ।। . इति श्री सूत्रकृताङ्गदीपिकायां प्रथमाध्ययने तृतीयोद्देशकः समाप्तः ॥छः॥

Loading...

Page Navigation
1 ... 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56