Book Title: Sutrakritang Sutra Dipika Pratham Vibhag
Author(s): Harshkulgani
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 35
________________ अथ सप्तमाध्ययनमारभ्यते ॥ अस्य च नालन्दीयमिति नाम, तस्या यमर्थः-नालन्दा-राजगृहनगरे वाहिरिका, तस्यां भवं नालन्दीयमिति । पूर्वसकलेन सूत्रकृताङ्गेन साध्वाचारः प्ररूपितः, अत्र तु श्रावकविधिरुच्यते । तस्येदं सूत्रम् ___ तेणं कालेणं तेणं समएणं रायगिहे नामं नयरे होत्था, ( इत्यादि ) जावपडिलवा (सू० ) ॥ १ ॥ व्याख्या-तस्मिन् काले तस्मिन् समये-जसरे राजगृहं नाम नगरमभवत् रिद्धिस्फीतं समृद्धं वर्णको वाच्यः, यावत् | 'प्रतिरूपं ' अनन्यसदृशं । तस्य नगरस्य बहिरुत्तरपूर्वस्यां दिशि नालन्दानाम बाहिरिकाऽऽसीत् , सा चानेकभवनशतसनिविष्टा नैकगृहसङ्कीर्णेत्यर्थः ॥१॥ तत्थ णं नालंदाए बाहिरियाए लेवे नाम गाहावई हुत्था ( इत्यादि ) अपरिमूए आवि होत्था (सू० ) ॥२॥ ___ व्याख्या-तस्यां नालन्दायां लेपो नाम 'गृहपतिः' कुटुम्बिक आसीत् । स च आढयो 'दीप्तस्तेजस्वी 'वित्तो' विख्यातो विस्तीर्णविपुलभवनशयनासनयानवाहनाकीणों बहुधनो बहुजातरूपरजत 'आयोगा' अर्थोपायाः 'प्रयोगा' प्रयोजनानि, तैः 'सम्प्रयुक्तः' संयुतः इतश्चेतश्च विक्षिप्तप्रचुरभक्तपानो बहुदास्यादिपरिसतो बहुजनस्यापरिभूत आसीत् ॥ २॥ से णं लेवे नाम गाहावई समणोवासए याविहुत्था (इत्यादि) अप्पाणं मावेमाणे एवं च णं विहरद (सू०) ॥ ३ ॥ व्याख्या-स लेपो नाम गृहपतिः श्रमणोपासकोऽभिगतजीवाजीव इत्यादि, 'निग्गंथे 'त्ति आर्हते प्रवचने निःशक्तिः

Loading...

Page Navigation
1 ... 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56