Book Title: Sutrakritang Sutra Dipika Pratham Vibhag
Author(s): Harshkulgani
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 47
________________ स्नात्वा च पौषधयुक्तस्वादासन्दीपीठिकातः प्रत्यारुह्याऽवतीर्य सम्यक् पौषधं कृत्वा कालं कृतवन्तस्ते किं सम्यकृतकाला उतासम्यक् ? एवं पृष्टैनिर्ग्रन्थैश्वश्यमेवं वक्तव्यं-ते सम्यक्का लगताः, एवं कालगतानामत्रश्यं भावी देवलोकोत्पादस्तत्रो. त्पन्नाच ते त्रसा एव ततश्च कथं निर्विषयता प्रत्याख्यानस्येति || १७ || पुनः श्राद्धोद्देशेन प्रत्याख्यानविषयं दर्शयति भगवं चणं उदाहु संतेगइया समणोवासगा भवंति ( इत्यादि) जाव अपि मेदे से णो णेयाउए भवइ ( सू० ) ॥ १८ ) व्याख्या - गौतमः प्राह-' सन्ति 'विद्यन्ते 'एके' केचन श्रमणोपासकास्तेषामेतदुक्तपूर्वं भवति, यथा न शक्नुमो वयं प्रव्रज्यां ग्रहीतुं नापि चतुर्दश्यादिषु सम्यक् पौषधं पालयितुं, वयं चापश्चिमया संलेखनक्षपणया क्षपितकायाः, यदि वा 'संलेखनजोषणया ' सेवनया 'जोषिताः' सेविता, उत्तमार्थगुणैरेवम्भूताः सन्तो भक्तपानं प्रत्याख्याय 'काल' दीर्घकालमनवकाङ्क्षमाणा विहरिष्यामः । कोऽर्थः १ न खलु वयं दीर्घकालवतं पालयितुं समर्थाः, किन्तु वयं सर्वमपि प्राणातिपातादिकं प्रत्याख्याय संलेखनया संलिखित कायाश्चतुर्विधाहारत्यागेन जीवितव्यं कुसमर्थ । इति सूत्रेणैवाह - 'सव्वं पाणाइवाय' मित्यादि, यावचे तथाकालगताः, किं वक्तव्यमेतत्स्यात् ? सम्यक् ते कालगता इति पृष्टा निर्ग्रन्था आहुर्यथा ते सन्मनसः शोभनचित्ताः कालगता इति । ते कालं कृत्वा सुरलोकेषूत्पद्यन्ते, तत्र चोत्पन्ना यद्यपि इन्तुं न शक्यन्ते तथापि त्रसत्वाचे श्राद्धस्य त्रसवधनिवृतिप्रत्याख्यानस्य विषयाः स्युः ॥ १८ ॥ पुनः प्रत्याख्यानविषय माह भगवं चणं उदाहु संतेगइया मणुस्सा भवंति तं जहा ( इत्यादि) मेरे से णो णेयाउए भवइ ( सू० ) ॥ १९॥

Loading...

Page Navigation
1 ... 45 46 47 48 49 50 51 52 53 54 55 56