Book Title: Sutrakritang Sutra Dipika Pratham Vibhag
Author(s): Harshkulgani
Publisher: Jinshasan Aradhana Trust
View full book text
________________
कार्करिति । ततः स उदकः श्रीवीरान्तिके पश्चमहाव्रतिकं ग्रहणायोत्थितः, भगवतापि तस्य सप्रतिक्रमणः पञ्चमहाव्रतिको धर्मोऽनुज्ञातः, स च तं धर्ममुपसम्पद्य-स्वीकृत्य विहरति । इति परिसमाप्त्यर्थे ब्रवीमीति पूर्ववत् । सुधर्मास्वामी स्वशिष्या. निदमाह-तद्यथा सोऽहं ब्रवीमि येन मया भगवदन्तिके श्रुतमिति ॥ ४०॥
___ नालन्दीयाख्यमिदं सप्तमाध्ययनं समाप्तम् ॥ तत्समाप्तौ च समाप्तोऽयं द्वितीयः श्रुतस्कन्धः । तत् सम्पूर्ती च सम्पूर्णेयं श्रीसूत्रकृताङ्गदीपिका ॥
अथ प्रशस्तिः । निस्तन्द्रचन्द्रचारुणि, चन्द्रकुले चरण चातुरीमाजः। विख्याततपेत्याख्या, जगति जगच्चन्द्रसूरयोऽभूवन् तेषां दोशमुषां, सन्ताने सुकृतमश्चयविताने । श्रीसोमसुन्दरगुरू-त्तमा क्षमासङ्गमा अभवन् तत्पदृस्कुटकमला-भाले कालेयतिलकमङ्काशाः । श्रीमुनिसुंदरगुरवः, कामितसम्पत्तिसुरतरवः चारयेऽपि मारतीति-रुदपादि वादिवर्गे यैः। श्रीजयचन्द्रमुनीन्द्राः, पारीन्द्रास्ते परगजेषु तत्पदविशदस्थाने, स्थाने शृङ्गारसारतां भेजुः। श्रीरत्नशेखरा इति, जगति यतः ख्यातिमापुस्ते तेषामनंकपडे, गुणसवे प्रभावकषपट्टे । प्राप्ताधिकनिष्ठाः, श्रीलक्ष्मीसागराः शिष्टाः
॥१॥ ॥२॥ ॥३॥ ॥४॥
॥६॥

Page Navigation
1 ... 53 54 55 56