SearchBrowseAboutContactDonate
Page Preview
Page 55
Loading...
Download File
Download File
Page Text
________________ कार्करिति । ततः स उदकः श्रीवीरान्तिके पश्चमहाव्रतिकं ग्रहणायोत्थितः, भगवतापि तस्य सप्रतिक्रमणः पञ्चमहाव्रतिको धर्मोऽनुज्ञातः, स च तं धर्ममुपसम्पद्य-स्वीकृत्य विहरति । इति परिसमाप्त्यर्थे ब्रवीमीति पूर्ववत् । सुधर्मास्वामी स्वशिष्या. निदमाह-तद्यथा सोऽहं ब्रवीमि येन मया भगवदन्तिके श्रुतमिति ॥ ४०॥ ___ नालन्दीयाख्यमिदं सप्तमाध्ययनं समाप्तम् ॥ तत्समाप्तौ च समाप्तोऽयं द्वितीयः श्रुतस्कन्धः । तत् सम्पूर्ती च सम्पूर्णेयं श्रीसूत्रकृताङ्गदीपिका ॥ अथ प्रशस्तिः । निस्तन्द्रचन्द्रचारुणि, चन्द्रकुले चरण चातुरीमाजः। विख्याततपेत्याख्या, जगति जगच्चन्द्रसूरयोऽभूवन् तेषां दोशमुषां, सन्ताने सुकृतमश्चयविताने । श्रीसोमसुन्दरगुरू-त्तमा क्षमासङ्गमा अभवन् तत्पदृस्कुटकमला-भाले कालेयतिलकमङ्काशाः । श्रीमुनिसुंदरगुरवः, कामितसम्पत्तिसुरतरवः चारयेऽपि मारतीति-रुदपादि वादिवर्गे यैः। श्रीजयचन्द्रमुनीन्द्राः, पारीन्द्रास्ते परगजेषु तत्पदविशदस्थाने, स्थाने शृङ्गारसारतां भेजुः। श्रीरत्नशेखरा इति, जगति यतः ख्यातिमापुस्ते तेषामनंकपडे, गुणसवे प्रभावकषपट्टे । प्राप्ताधिकनिष्ठाः, श्रीलक्ष्मीसागराः शिष्टाः ॥१॥ ॥२॥ ॥३॥ ॥४॥ ॥६॥
SR No.600364
Book TitleSutrakritang Sutra Dipika Pratham Vibhag
Original Sutra AuthorN/A
AuthorHarshkulgani
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages56
LanguageSanskrit
ClassificationManuscript
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy