Book Title: Sutrakritang Sutra Dipika Pratham Vibhag
Author(s): Harshkulgani
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 49
________________ जन्तुवधान निवृत्ताः, सत्यामृषाणि वाक्यानि परेषु एवं वक्ष्यमाणप्रकारेण प्रयुञ्जन्ति एवं विप्पडिवेदेति' क्वचित् पाठः, एवंविध प्रकारेण प्रतिवेदयन्ति ज्ञापयन्ति, यथा-अहं न हन्तव्योऽन्ये हन्तव्या, अहं नाज्ञापयितव्योऽन्य आज्ञापयितव्या इत्यादीन्युपदेशवाक्यानि ददति । एवम्भूतास्ते कामासक्ताः किश्चिदज्ञानतपः पराः कालं कृत्वाऽन्यतरेष्वसुरीयेषु स्थानेषु किल्बिषिकेषु असुरदेवाधमेषु उत्पद्यन्ते, अथवा प्राण्युपघात कोपदेशदातारो भोगमूच्छिता ' असूर्येषु नित्यान्धकारेषु किल्विषप्रधानेषु नरकस्थानेषु समुत्पद्यन्ते ते च देवा नारका वा त्रसत्वं न व्यभिचरन्ति तेषु च यद्यपि द्रव्यप्राणातिपातो न सम्भवति तथापि भावप्राणातिपातस्य विरतेर्विषयतां प्रतिपद्यन्ते । ततो देवलोकायुता नारकाद्वत्ता वा क्लिष्टपञ्चेन्द्रियतिर्यक्षु हीन मनुष्येषु वा एडमूकतया तमोरूपतया अन्धवधिरतया प्रत्यायान्ति, ते चावस्थाद्वयेऽपि त्रसत्वं न व्यभिचरन्ति, ततो न निर्विषयं प्रत्याख्यानं, एषु च द्रव्यप्राणातिपातोऽपि सम्भवति ।। २२ ।। अथ प्रकटमेव विरतिविषय माहभगवं च णं उदाहु संतेगइया पाणा दीहाउया, ( इत्यादि) जाव नो नेयाउए भवइ ( सू० ) || २३ || व्याख्या - भगवानाह - यो हि प्रत्याख्यानं गृह्णाति तस्मात् दीर्घायुष्काः प्राणिनस्ते च नारकमनुष्यदेवा द्वित्रि चतुष्पञ्चेन्द्रियास्तिर्यञ्चश्च सम्भवन्तिः ततः कथं निर्विषयं प्रत्याख्यानमिति । शेषं सुगमम् || २३ || भगवं च णं उदाहु संतेगइया पाणा समाउया, ( इत्यादि) जाब नो नेयाउए भवइ ( सू० ) ।। २४ ।। व्याख्या - इदं समायुष्कसूत्रं पूर्ववत् ।। २४ ।। भगवं च णं उदाहु संतेगइया पाणा अप्पाउया (इत्यादि) जाव नो नेयाउए ( सू० ) ॥ २५ ॥ ३०

Loading...

Page Navigation
1 ... 47 48 49 50 51 52 53 54 55 56