Book Title: Sutrakritang Sutra Dipika Pratham Vibhag
Author(s): Harshkulgani
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 52
________________ सूत्रकृताङ्ग Hal द्वितीय दीपिका। परप्रश्नस्यात्यन्तावसति (इत्यादि) जाव नासाः सर्वथा उन ॥ २६ ॥ सम्भव तत्र यत्र प्रसास्तत्रादानशः प्रथमव्रतग्रहणादारभ्य श्रावकेणामरणान्तो दण्डः परित्यक्त इति योज्यं, यत्र तु स्थावरास्त. त्रार्थाय दण्डो न निक्षिप्तो-न त्यक्तः, अनर्थाय च दण्डः परित्यक्त इति । शेषं सुगमम् ॥ ३४ ॥ तदेवं बहुदृष्टान्तः श्रावकप्रत्याख्यानस्य सविषयतां प्रसाध्याधुना परप्रश्नस्यात्यन्तासम्बद्धतां दर्शयन्नाह भगवं च णं उदाहु न एयं भूयं न एयं भवं न एयं भविस्संति (इत्यादि) जाव नो नेयाउए भवई (सू०) ॥ ३५ ॥ व्याख्या-गौतमस्वामी उदकं प्राह-नैतद् भृतं नैतद् भाव्यं नैतद् भविष्यं यत् त्रसाः सर्वथा उच्छेत्स्यन्ति स्थावरा एव भविष्यन्ति, तथा स्थावरा उच्छेत्स्यन्ति त्रसा एव भविष्यन्ति, एतद्द्वयं न सम्भवति, नहि कदाप्येवं सम्भवोऽस्ति यत् प्रत्याख्यानिनमेकं विहायान्येषां नारकाणां द्वीन्द्रियादितिरश्चां मनुष्याणां देवानां च सर्वथाप्यभावः। एवं हि त्रसप्रत्याख्यानं निर्विषयं स्याद्यदि प्रत्याख्यानिनो जीवत एव नारकाद्यास्त्रसाः समुच्छिद्यन्ते, न चायं प्रकारः सम्भवी, स्थावराणां चाऽनन्तत्वान्नासङ्ख्येयेषु से घृत्पादसम्भवः, एवं सति यद् वदत यूयमन्यो वा वदति, तद्यथा नास्त्यऽसौ पर्यायो यत् श्रावकस्यैकत्रसविषयो दण्डत्याग इति, तदेवं त्वदीयं प्रेयं सर्वमशोभनमिति ॥ ३५॥ अथोपसंहारमाहभगवं च णं उदाहु आउसंतो उदगा! जे खलु समणं वा माहणं वा परिभासेइ ( इत्यादि ) दिसि पहारेत्थ गमणाए (सू०) ॥३६॥ व्याख्या-गौतमस्वाम्याह-आयुष्मन् उदक! जे खलु 'श्रमणं' यथोक्तक्रियाकारिणं 'माहनं वा' सद्ब्रह्मचर्योपेतं 'परिभाषते ' मैत्री मन्यमानोऽपि निन्दति । सम्यग् ज्ञानं दर्शनं चारित्रं च 'आगम्य' प्राप्य पापानां कर्मणामकरणाय स्कन्धस्य द्वितीयाध्ययने सप्तमोदेशकः। ॥२६॥

Loading...

Page Navigation
1 ... 50 51 52 53 54 55 56