Book Title: Sutrakritang Sutra Dipika Pratham Vibhag
Author(s): Harshkulgani
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 45
________________ अस्पतरं प्रभूततरं च कालं तथा 'देसं दूइज्जित्त'त्ति विहृत्य कर्मोदयाद्नेहमावसे युगृहस्था भवेयुः, एवम्भूतः पर्यायः किं सम्भाव्यते ? उत नेति प्रष्टा निर्ग्रन्था प्रत्यूचुः हन्त गृहवासं व्रजेयुः। तस्य च ' यतिवधगृहीतव्रतस्य तं गृहस्थं ध्नतः किं | व्रतमङ्गो भवेत् उत नेति ? ते आहुति, एवं श्राद्धस्य त्रसवधनिवृत्तस्य स्थावरत्वं प्राप्तं त्रसं धनतो न स्याद्वतभङ्गः॥१४॥ अथ द्वितीयं दृष्टान्तं प्रत्याख्यातृविषयगतं दर्शयन्नाह भगवं च णं उदाहु नियंठा 'खलु' पुच्छियव्वा ( इत्यादि ) से एवमायाणियब्वं ( सू०)॥ १५ ॥ व्याख्या-भगवान् गौतमः प्राह-निर्ग्रन्थाः प्रष्टव्याः, इह खलु गृहपतयो वा गृहपतिपुत्रा वा तथाप्रकारेषु श्रेष्ठलेषु उत्पद्य धर्मश्रवणार्थमागच्छेयुस्तेषां धर्म आख्यातव्यः ? इति पृष्टे श्रमणा आहुः-हंत आख्यातव्यः । किं ते तथाप्रकार शुद्धं धर्म श्रुत्वा एवं वदेयुः १ इदमेव निर्ग्रन्थसम्बन्धि प्रवचनं सत्यं यावत सर्वदुःखप्रहीणमार्गः 'इत्थंति अत्र स्थिता जीवा सिद्ध्यन्ति यावत्सर्वदुःखानामन्तं कुर्वन्ति, तदाज्ञया तथा गच्छामस्तथा चेष्टामहे यावत् तथा' उत्थया' प्रयत्नेन प्राणिनां 'संयमेन ' हिंसानिवृपया ' संयमामो' संयम कुर्मों, यथा जिनाबा, एवं ते वदेयुः इति पृष्टे श्रमणा आहुः-हंत बदेयुः। पुनः श्रमणान् पृच्छति-किं ते तादृशयोग्याः कल्पन्ते प्रव्राजयितुं ? श्रमणा आहु-ईन्त कल्पन्ते इत्यादि । 'तेसिं च णं' तैस्तथाविधैः सर्वजीवेभ्यो दण्डस्त्यक्तः, एवंविधास्ते विहरन्तो वर्षाणि चत्वारि पश्च वा पह दश वा अल्पतरं बहुतरं वा कालं देशग्रामादावुद्यतविहारेण विहृत्य पश्चात्पतितपरिणामास्सन्तोऽगारं व्रजेयुः । गृहस्था भवेयुरित्यर्थः । निर्ग्रन्था पृष्टोचरमाहुः-हन्त व्रजेयुः तेषां सर्वप्राणिभ्यो दण्डो नो निक्षिप्तः, तेषामवस्थात्रयमाह-पूर्व गृहस्थत्वे सर्वजन्तुवधो न त्यक्तः,

Loading...

Page Navigation
1 ... 43 44 45 46 47 48 49 50 51 52 53 54 55 56