Book Title: Sutrakritang Sutra Dipika Pratham Vibhag
Author(s): Harshkulgani
Publisher: Jinshasan Aradhana Trust
View full book text
________________
सूत्रकृताङ्ग
सूत्र
दीपिका ।
॥ १९ ॥
दुष्प्रत्याख्यातं भवति, प्रत्याख्यानभङ्गसद्भावाचथा एवं 'प्रत्याख्यापयतां ' प्रत्याख्यानं कारयतां 'यतीनां ' साधूनां दुष्टं प्रत्याख्यानदानं भवति, एवं प्रत्याख्यानं कुर्वन्तः कारयन्तश्च स्वां प्रतिज्ञामतिचरन्त्य - तिलङ्घपन्ति ' कस्स णं तं हेउं ' कस्माद्धेतोरित्यर्थः । प्रतिज्ञाभङ्गकारणमाह- 'संसारिया' इत्यादि, सांपारिकाः खलु प्राणिनः स्थावरा अपि प्राणिनसतया प्रत्यायान्ति त्रसाथ स्थावरत्वेनेति । एव मति प्रतिज्ञालोपः स्यात्, यथा नागरिको न इंतव्य ' इति प्रतिज्ञा येन कुता स यदि उद्यानस्थं नागरिकं हन्यात्तदा तस्य किं प्रतिज्ञालोपो न स्यात् ? एवमत्रापि येन त्रसवध निवृत्तिः कृता स यदि तमेव संस्थावर काय स्थितं हन्ति तदा तस्य किं न भवेत् प्रतिज्ञालोपः ? भवत्येवेत्यर्थः, त्रसकापान्मुच्यमानाः स्थावर काये उत्पद्यन्ते स्थावर कायान्मुच्यमानास्तु त्रसकाये, न च किञ्चिल्लिङ्गमस्ति येन ज्ञायतेऽयं सोऽभूत् पूर्वं स्थावरो वेति । 'तेसिं च णं' तेषां त्रसानां स्थावरकाये उत्पन्नानां श्राद्धस्थारम्भवतः 'स्थानमिदं' स्थावराख्यं घात्यं स्यात् एवं नागरिकदृष्टान्तेन त्रसमेव नतेः प्रतिज्ञालोपः स्यात् ।। ६ ।। उदकः पुनः स्वाभिप्रायमाह -
एवंण्डं पश्ञ्चक्खंताणं सुपश्च्चक्खायं भवई, पञ्चक्खावे माणाणं सुपञ्चकखावियं भवइ (इत्यादि) अवियाई आउसो गोयमा ! तुब्भंपि एवं रोयई (सू०) ७
व्याख्या - एवं प्रत्याख्यानं कुर्वतां सुप्रत्याख्यानं भवति, एवं प्रत्याख्यापयन्तां च तदेव, एवं प्रत्याख्यानं कुर्वतां कारयतां च न स्वप्रतिज्ञालोपः । 'णण्णत्थे'त्यादि, एवं गृहस्थः प्रत्याख्याति - 'त्रसभूतेषु' वर्त्तमानकाले सस्वेनोत्पन्नेषु प्राणिषु 'दण्डं' व 'निहाय त्यक्त्वा प्रत्याख्यानं करोति, तदिह भूतत्वविशेषणात् स्थावरपर्यायप्राप्तस्य वधेऽपि न प्रतिज्ञालोपः, नान्यत्राsभियोगेन राजाद्यभियोगादन्यत्र प्रत्याख्यानं गृहपतिचौरविमोक्षणतयेति सम्यगुक्तं, तस्माद्भूतत्व विशेषणाङ्गीकारे
द्वितीय
श्रुत
स्कन्धस्व द्वितीया
sura
समो
देवकः ॥
॥ १९ ॥

Page Navigation
1 ... 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56