Book Title: Sutrakritang Sutra Dipika Pratham Vibhag
Author(s): Harshkulgani
Publisher: Jinshasan Aradhana Trust
View full book text
________________
यथा क्षीरविकृतिप्रत्याख्यायिनो दधिभक्षणेऽपि न प्रतिज्ञामङ्गः, तथा सभूता न हंतव्या इति प्रतिज्ञावतः स्थावरहिंसायामपि न प्रत्याख्यानातिचारः, एवं विद्यमाने सति 'भाषायाः' प्रत्याख्यानवाचः पराक्रमे-भूतविशेषणादोषपरिहारसामर्थे एवं दोषपरिहारोपाये सति केचन क्रोधाद्वा लोमादा श्रावकं निर्विशेषणमेव प्रत्याख्यापयन्ति तेषां मृपावादः स्यात् , गृह तां च व्रतलोपः । तदेवमयमपि नोऽस्मदीयोऽङ्गीकारः । किं भवतां नो 'नैयायिको' न्यायोपपत्रो भवति ? अपि च आयुष्मन् गौतम ! एष पक्षस्तुभ्यमपि रोचते ॥७॥ ___ सवायं भगवं गोयमे उदयं पेढालपुत्तं एवं वयासी (इत्यादि) तेसिं च णं तसकायंसि उववन्नागं ठाणमेयं अघत्तं (मू०)॥८॥
व्याख्या-सवादं भगवान् गौतमस्तं उदकं पेढालपुत्र एवमवादीत-आयुष्मन् उदक ! नो खलु अस्मभ्यं एतद् रोचते, यदिदं त्रसकायविरतौ भूतत्वाविशेषणं तदस्मभ्यं न रोचत इत्यर्थः । एवं सति ये श्रमणा वा ब्राह्मगा वा एवं आख्यान्ति ते यथार्थों भाषां न भाषन्ते किन्तु अनुतापिनी भाषां भाषन्ते, अन्यथा भाषणे हि परस्यानुतापो भवति, ते अभ्याख्यान्ति श्रमणोपासकान्, असद्भूतदोषप्रकटने नाम्याख्यानं ददते 'जेहिं ति येष्वपि अन्येषु जीवेषु ये 'संयमयन्ति' संयमं कुर्वन्ति, तद्यथा-' ब्राह्मणा मया न हन्तव्या' इत्युक्ते स यदा वर्णान्तरे तिर्यक्षु वा स्थितस्तद्वधे ब्राह्मणवध आपद्यते, भूतशब्दविशेषणाभावात् । एवं शूकरादिन हन्तव्य इत्यादि विशेषव्रतानि ते'ऽभ्याख्यान्ति' दूषयन्ति, कस्माद्धेतोः? यस्मात्सांसारिका | प्राणास्त्रसाः स्थावरत्वेन स्थावरानमत्वेन प्रत्यायान्ति, त्रसकायाचदायुष्केन मुच्यमानाः स्थावरकाये, स्थावरकायाच्च तयोग्यकर्मणा मुच्यमानाखसकाये उत्पद्यन्ते, तेषां त्रसकाये समुत्पन्नानां स्थानमेतत्त्रसकायाख्यमघात्यं-अधाताई भवति, स्थूल

Page Navigation
1 ... 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56