Book Title: Sutrakritang Sutra Dipika Pratham Vibhag
Author(s): Harshkulgani
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 42
________________ सूत्रकृताङ्ग सूत्र दीपिका । ॥ २१ ॥ तसावि वुच्चति तसा (इत्यादि ) ते महाकाया ते चिरट्ठिइया ( सू० ) ॥ ११ ॥ व्याख्या - सा अपि द्वीन्द्रियादयोऽपि त्रमा उच्यन्ते । सामसम्भारकृतेन कर्मणा स्युः, सम्मारो नाम कर्मणोsari विपाकानुभवेन वेदनं, तच्च त्रसनाम प्रत्येकनाम इत्यादिकं त्रसत्वेन संबद्धं यदायुष्कं उदयप्राप्तं स्यात्तदा त्रसनामादिकर्मणा सा उच्यन्ते, सायुर्यदा क्षीणं स्यात्र पकायस्थितिश्च क्षीणा स्यात् सा च जधन्ये नान्तर्मुहूर्तः उत्कृष्टतः सातिरेकसहस्रद्रयसागरमानास्ततस्ते त्रसायुस्त्यजन्ति, अन्यान्यपि तत् सहचरकर्माणि त्यक्त्वा स्थावरत्वेन प्रत्यायान्ति, स्थावरा अपि तथैव कर्मणा स्थावरत्वेनोत्पद्यन्ते, एवं सति स्थावर कार्य घनतः श्राद्धस्य कथं स्थूलप्राणातिपातनिवृत्तित्रतमङ्ग १ इति । किञ्च 'थावर आउं'ति, यदा स्थावरायुष्कमपि क्षीणं स्यात्तथा स्थावर काय स्थितिश्व, सा जघन्येनान्तर्मुहूर्तम्, उत्कृष्टतोऽनन्तकाल - मसङ्ख्येयाः पुद्गलपरावर्ताः, ततस्ते स्वायुः परित्यज्य 'भूयते' पुनरपि परलोकतया स्थावर काय स्थितेरभावात्सामर्थ्यास्त्रसत्वेन प्रत्यायान्ति, ते त्रसाः प्राणा अप्युच्यन्ते त्रमा अध्युच्यन्ते महाकायास्ते योजनलक्षप्रमाणशरीरविकुर्वणात् । चिरस्थितिकास्ते भवस्थित्यपेक्षया त्रयस्त्रिंशत्सागारायुष्कभावात् । ततस्त्रमनिवृत्तिरेव श्राद्धेन कृता न तु स्थावराणां, नागरिकदृष्टान्तोप्ययुक्तः, नागरिको न हन्तव्य इति प्रतिज्ञां कृत्वा बहिःस्थितं तमेव पर्यायापनं घ्नतो व्रतभङ्ग इति त्वत्पक्षः, स चायुक्त, यो हि नगर धर्मैरुपेतः स बहिःस्थोऽपि नागरिक एवातः पर्यायापन इति विशेषणमयुक्तं, सर्वथा नगरधर्मत्यागेतु तमेवेति नोपपद्यते स चान्य एवेति । तथा त्रसत्वत्यागाद्यदा स्थावरत्वं प्राप्तस्तदाऽन्य एवायमिति, ततो न व्रतभङ्गः ॥ ११ ॥ पुनरुदकः प्राह द्वितीयश्रुत स्कन्धस्य द्वितीया ध्ययने सप्तमो देशका | ॥ २१ ॥

Loading...

Page Navigation
1 ... 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56