Book Title: Sutrakritang Sutra Dipika Pratham Vibhag
Author(s): Harshkulgani
Publisher: Jinshasan Aradhana Trust
View full book text
________________
न्यूत्रकृताङ्ग
सूत्र ·
-दीपिका ।
ला १५ ॥
दित्यर्थः । ' अगृद्धोऽमूच्छितो 'विप्रमुक्तो ' रागद्वेषरहितच आहारे स्थादिति पञ्चद्रासैषणा दोषत्यागयुक्तः । स एवम्भूतो भिक्षुः परेषामपमानं परिवर्जयेत्, तपोमदं ज्ञानमदं च न कुर्यादित्यर्थः, आत्मनः सकाशात् परान् हीनान् न पश्येदिति तात्पर्यम् ॥ ४ ॥ स्वमतं प्रख्याप्य पुनः परमतं दर्शयति
लोगवायं ०
X
X X ( सू० ) ॥ ५ ॥
व्याख्या— लोकानां पाखण्डिकानां वादमङ्गीकारं 'निसामिज्जा' निशामयेत् - जानीयात् । तद्दर्शयति इह संसारे केषाञ्चित् इदमाख्यातं यथा 'विपरीता' मिथ्या या प्रज्ञा, तथा 'सम्भूतं ' उत्पन्नं विपर्यस्तबुद्धिप्रथितमित्यर्थः । तथा अन्यैरविवेकिभिर्यदुक्तं ' तदनुगं' तत्सदृशं अविवेकिजनवाक्यसदृशमिति ॥ ५ ॥ लोकवादमेवाह
अनंते णितिए० X X X ( सू० ) ॥ ६ ॥
व्याख्या - न विद्यते अन्तो यस्येत्यनन्तः नित्यः शाश्वतो निरन्वयनाशेन न नश्यति यो याडगिह भवे स परभवेऽपि ताश एव, पुरुषः पुरुष एव अङ्गना अङ्गनैवेति । अथवाऽनन्तो ऽपरिमितो निश्वधिकस्तथा 'नित्यः' अप्रच्युतानुत्पन्नस्थिरैकरूपः । तथा शाश्वतः कार्यद्रव्यं भवदपि प्रान्ते परमाणुत्वं न त्यजति । तथा न विनश्यति दिगात्माकाशाद्यपेक्षया । तथा अन्तवान् लोकः, सप्तद्वीपा वसुन्धरेति परिमाणोक्तास्तादृक् परिमाणो 'नित्यः' इति ' धीरः ' साहसिको व्यासादिश्तीव पश्यति ।। ६ ।। किच
प्रथमभूत
FREE
प्रथमा
ध्ययने
चतुर्थी
देशकः ।
॥ १५ ॥

Page Navigation
1 ... 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56