Book Title: Sutrakritang Sutra Dipika Pratham Vibhag
Author(s): Harshkulgani
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 17
________________ एवमन्नाणिआ० x x x (सू०)॥ १६ ॥ व्याख्या-एव मज्ञानिकाः' सम्यगज्ञानरहिताः 'स्वकं आत्मीयं ज्ञानं प्रमाणत्वेन वदन्तोऽपि निश्चयार्थ न जानन्ति । इव' यथा म्लेच्छो निश्चयार्थमजानन् परोक्तमनुवदत्येवं तेऽपि 'अबोधिका' बोधरहिताः, ततोऽज्ञानमेव श्रेय इति ॥१६॥ इदानीमेतपणायाइ अण्णाणिआण. x x x (सू०) ॥१७॥ व्याख्या-'अज्ञानिकानां' अज्ञानमेव श्रेय इति वादिनां यो 'विमर्शो' विचारः स अज्ञानेऽज्ञानविषये 'न नियः | च्छति'न युज्यते, यतो ज्ञान सत्यमसत्यं वेति विमर्शः अज्ञानेन कृतेऽपराधे स्वल्पो दोषः, ज्ञानेन कृते महान् दोष इत्येवंभृतो विचारोऽपि तेषां न युज्यते, एवंविधविचारस्य ज्ञानरूपत्वादिति, अज्ञानवादे विचारो न युज्यते । तथा आत्मनोऽपि परं प्रधानमज्ञानवादं 'शासितु'मुपदेष्टुं नालं'न समर्थाः, स्वयमज्ञत्वात् , कुतो अन्येषां शिष्याणामुपदेष्टुं समर्था भवेयुः ॥ १७॥ यथा ते आत्मनः परेषां च शिक्षणेऽसमर्थास्तथा दृष्टान्तेनाह वणे मूढो० x x x (सू०)॥१८॥ व्याख्या-वनेऽरण्ये यथा कश्चिन्मूढो जन्तुर्मूढमेव ' नेतारं ' प्रापकमनुगच्छति आश्रयति, तदा तौ द्वावपि अकोविदौ' मार्गानिपुणौ सन्तौ तीव्र श्रोतो गहनं शोकं वा 'नियच्छतः ' प्राप्नुतः ॥ १८॥ दृष्टान्तान्तरमाह

Loading...

Page Navigation
1 ... 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56