Book Title: Sutrakritang Sutra Dipika Pratham Vibhag
Author(s): Harshkulgani
Publisher: Jinshasan Aradhana Trust
View full book text
________________
अहिअप्पाऽहि. x. x x (सू०)॥९॥ व्याख्या-स मृगोऽहितात्मा, तथाऽहितं 'प्रज्ञानं ' बोधो यस्य सोऽहितप्रज्ञानो 'विषमान्तेन' कूटपाशादियुक्तेन प्रदेशेनोपागतः, अथवा 'विषमान्ते ' कूटपाचे प्रात्मानमनुपातयेत् , तत्र चासो बद्धः पदपावादीनऽनर्थबहुलान् अवस्थाविशेषान प्राप्तस्तत्र बन्धने 'पातं ' विनाशं 'निगच्छति' प्राप्नोति ॥९॥ दृष्टान्तयोजनामाह
एवं तु समणा० x x x (सू०)॥१०॥ व्याख्या-' एवं ' पूर्वोक्तमृगदृष्टान्तेन, तुरवधारणे, एके श्रमणाः पाखण्डाश्रिता मिध्यादृष्टयोऽनार्या असदनुष्ठाना | अशङ्कितानि धर्मानुष्ठानानि शङ्कमानास्तथा शकितानि-एकान्तपक्षाश्रयणानि अङ्किनो मृगा इवानर्थमाजः स्युः॥१०॥ शहिताशङ्कितविपर्यासमाह
धम्मपण्णवणा० x x x (सू०) ॥ ११ ॥ व्याख्या-'धर्मप्रज्ञापना' शान्त्यादि दवविधधर्मप्ररूपणा या सा प्रसिद्धा तां शकते, असद्धर्मप्ररूपणेयमिति मन्यन्ते, आरम्भांश्च-पापोदानभूतान् न शकन्ते, यतो 'अव्यक्ता' मुग्धाः सदसद्विवेकविकला 'अकोविदा: अपण्डिताः सच्छास्त्रावबोधविधुराः ॥ ११ ॥ तेषां सत्फलामावमाह
सबप्पगं० x x x (स०) ॥ १२ ॥

Page Navigation
1 ... 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56