Book Title: Sutrakritang Sutra Dipika Pratham Vibhag
Author(s): Harshkulgani
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 2
________________ N सूत्रकृताङ्ग सूत्र. दीपिका। LG स्कन्धस्य प्रथमाध्ययने | प्रथमो. द्देशकः। मिथ्यावादयो वा परिग्रहारम्भादयो वा बन्धनं जानीयादित्युक्तं, न च ज्ञानमात्रेण सिद्धिरित्याह । 'तिउद्विजा-परिजाणिआ' परिक्षाय त्रोटयेत्-अपनयेत् , आत्मनः पृथकार्यादित्यर्थः। अथ जम्बूस्वामी शिष्यः सुधर्मस्वामिनमाह, किमाहेति, श्रीवीरः किं बन्धनं 'आह' उक्तवान् ! किंवा जानन् बन्धनं त्रोटयति ? उत्तरमाह ॥१॥ चित्तमंत० x x x (सू०)॥२॥ व्याख्या-'चित्तवत्' सचित्तं द्विपदचतुष्पदादि, अचित्तं कनकरजतादि द्वयमपि 'परिगृह्य' परिग्रहं कृत्वा 'कृशमपि' स्तोकमपि स्वयं अन्यान् वा ग्राहयित्वा गृहतो वान्याननुजाय एवं दुःखान्न मुच्यते, परिग्रह एव परमार्थतोऽनर्थमूलमित्युक्तम् ॥ २॥ परिग्रहतवावश्यम्भावी आरम्भस्तस्मिश्च प्राणातिपात इति दर्शयति । सयं० x x x (सू०)॥३॥ व्याख्या-अथवा प्रकारान्तरेण बन्धनमेवाह-स परिग्रहवान् 'स्वयं' आत्मना प्राणान् अतिपातयेत्-जीवान् हिंस्यात् अथवा अन्यैः' परैरपि घातपति, प्रतश्चान्याननु जानीते, तदेवं कृतकारितानुमतिभिः प्राणिघातं कुर्वन् आत्मनो वैरं वर्द्धयति, ततश्च बन्धनान्न मुच्यत इति भावः ॥ ३ ॥ पुनर्बन्धनमेवाश्रित्याह जंसि कुले० x x x (सू०)॥४॥ व्याख्या-यस्मिन् कुले जातो या मित्रै र्यादिभिर्वा सह संवसेबरः, तेषु मित्रपितृमातृमार्यादिषु'ममायीति ममत्व

Loading...

Page Navigation
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 ... 56