Book Title: Sutrakritang Sutra Dipika Pratham Vibhag Author(s): Harshkulgani Publisher: Jinshasan Aradhana Trust View full book textPage 8
________________ ali त्रता दीपिका। प्रथम श्रुतस्कस्धस्य प्रथमाध्ययने प्रथमोद्देशकः। ॥४ ॥ ताश्चेति साङ्ख्यमतं निरस्तम् ॥ १४ ॥ अथात्मषष्ठवादिमतमाह संति पंच० x x x x (सू०)॥१५॥ व्याख्या-सन्ति पञ्च महाभूतानि इहास्मिन् संसारे ' एकेषां ' आत्मषष्ठवादिनां सायानां वैशेषिकाणां च एत. दाख्यातं, भूतान्याख्यातानि वा । ते पुनर्वादिन एवमाहुः-यद्भूतानि आत्मषष्ठानि-आत्मा षष्ठो येषां तान्यात्मषष्ठानि, केषाश्चिद्वादिनामनित्यानि भूतान्यात्मा च न तथा एषामित्याह-आत्मा लोकश्च पृथिव्यादिरूपः शाश्वतो-नित्यः ॥ १५ ॥ शाश्वतत्वमेवाह दुहतो ते ण. x x x (सू०)॥ १६ ॥ व्याख्या-'ते' भूतपदार्था आत्मषष्ठा 'उभयतो' निर्हेतुकसहेतुकविनाशाभ्यां न विनश्यन्ति, बौद्धानां मते घटादिवस्तु हेतुं विनाऽपि क्षणे क्षणे विनश्यति, वैशेषिकाणां तु लकुटादियोगेन घटादीनां विनाशः, तेन द्विविधेनापि विनाशेन लोकात्मनोन विनाश इति तात्सर्यार्थः । यदिवा द्विरूपाचेतनाचेतनस्वभावान विनश्यन्ति, आत्मा चेतनस्वभावान्न विनश्यति, पृथिव्याद्या लोकाश्चाचेतनस्वभावान विनश्यतीति, न चोत्पद्यतेऽसत्-अविद्यमानं, सर्वेऽपि भावाः सर्वथा नियतिभावं नित्यत्वमागता:-प्राप्ताः ॥ १६॥ अथ बौद्धमतमाह पंचखंधे० x x x (सू०)॥ १७ ॥Page Navigation
1 ... 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56