Book Title: Sutrakritang Sutra Dipika Pratham Vibhag Author(s): Harshkulgani Publisher: Jinshasan Aradhana Trust View full book textPage 9
________________ व्याख्या-एके बौद्धाः पञ्च स्कन्धान् वदन्ति । रूपस्कन्धः १, वेदनास्कन्धः २, विज्ञानस्कन्धः ३, सज्ञास्कन्धः ४, IN संस्कारस्कन्धः ५। तत्र रूपस्कन्धः पृथिवीत्वादयो रूपादयश्च १, वेदनास्कन्धः सुखदुःखा अदुःख सुखा च वेदना २, विज्ञानस्कन्धो रूपविज्ञानं रसविज्ञानमित्यादि ३, सज्ञास्कन्धः 'सञ्जा' निमित्तोद्ग्रहणात्मकः प्रत्ययः, सविकल्प ज्ञानमित्यर्थः ४, संस्कारस्कन्धः पुण्यापूण्यादि धर्मसमुदायः ५, न चैतेभ्योऽन्यः कश्चिदात्माख्यो पदार्थोऽस्तीति 'बाला' मूर्खास्ते, ते स्कन्धाः किंभूताः ? क्षणयोगिनः, क्षणे क्षणे विनश्वरा इत्यर्थः । पूर्ववादिभ्यो बौद्धव्यतिरेकमाह । 'अण्णो'त्ति यथा साङ्ख्यादयो भूतेभ्योऽन्यमात्मानमङ्गीकृतवन्तः, यथा च चार्वाकाः भूतेभ्योऽन्यमभिन्नमात्मानमिष्टवन्तस्तथा बौद्धा नैवाहु!क्तवन्तः तथा हेतुभ्यो जातो हेतुका-कायाकारपरिणतभूतनिष्पादितः, तथाऽहेतुको नित्य, इत्येवं तमात्मानं बौद्धा नाङ्गीकृतवन्त इति ॥ १७॥ तथाऽन्ये चतुर्भातुकं जगद्वौद्धा वदन्ती त्याह पुढवी आऊ० x x x (सू०)॥ १८॥ ___ व्याख्या-पृथिवी धातुः 'आपो' जलं धातुः, तथा तेजोवायुश्चेति धातवः एते चत्वारोऽपि धातको यदा 'एक्का उत्ति एकाकारपरिणतास्तदाकारतया जीवाख्यां लभन्ते, एवमाहु 'र्जानकाः' पण्डितंमन्या बौद्धाः ' एवमाहंसु आवरे' इति कचित्पाठः तत्र 'आवरे "त्ति अपरे बौद्धा इत्यर्थः॥१८॥ अथ पूर्वोक्तं सर्व दुर्मतीनामफलत्वं स्वदर्शनाङ्गीकारं च दर्शयत्राहPage Navigation
1 ... 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56