Book Title: Sutrakritang Sutra Dipika Pratham Vibhag
Author(s): Harshkulgani
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 5
________________ वयवी, स च एकोऽपि यथा नानारूपः सरित्समुद्रपर्वतनगरमामाद्याधारतया विचित्रो दृश्यते, निम्नोनतमृदुकठिनरक्तपीतादिमेदेन वा दृश्यते, न च तावता पृधिवीत्वस्यै कस्य भेदो भवति, एवं भो! इति परामन्त्रणं, कृत्स्नोऽपि चेतनाचेतनरूपो लोक एको विद्वान् एक एवात्मा 'विद्वान् ' ज्ञानपिण्डः पृथिव्यादिभूताकारतया नाना दृश्यते, न च तावता तस्यैकस्यात्मतत्वस्य भेदो भवति ॥ ९ ॥ अस्योत्तरमाह एवमेगेति० x x x (सू०) ॥ १०॥ व्याख्या-एवमात्माद्वैतवादमाश्रिता एके जल्पन्ति 'मन्दा' जडाः, मन्दत्वं चैतेषां युक्तिविकलजीवाद्वैतपक्षाश्रयणात् । तथाहि-यद्यक एवात्मा स्यात्तदा एके कृषीवलादय आरम्भे जीवहिंसात्मके 'निश्रिता' आसक्ताः स्वयं पापं कृत्वा तीव्र नारकादि दुःखं 'निगच्छइ'त्ति आर्षस्वाद्बहुवचनार्थे एकवचनं, निश्चयेन गच्छन्ति, त एवारम्भमक्ता, नान्ये इत्येतन स्यात् यद्येक एवात्मा स्यात्तदा केनाप्य शुभे कर्मणि कृते सर्वेषां दुःखं स्यान्न चैवं दृश्यते, तस्मादेक एवात्मेति न युक्तम् ॥ १०॥ साम्प्रतं तजीव-तच्छरीर-वादिमतं पूर्वपक्षयनाह पत्तेअंकसिणे० x x x (सू०)॥ ११ ॥ व्याख्या-'प्रत्य' प्रतिशरीरमात्मानः 'कृत्स्नाः ' सर्वेऽपि ये 'बाला' अज्ञा ये च पण्डितास्ते सर्वेऽपि पृथग् व्यवस्थिताः, नहि एक एवात्मा सर्वव्यापी स्वीकार्यः, बालपण्डितादिविभागाऽभावप्रसङ्गात् । नन्वेवमात्मबहुत्वं जैनैरपि

Loading...

Page Navigation
1 ... 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 ... 56