Book Title: Siddha Hemchandra Shabdanushasan Bruhad Vrutti Part 01
Author(s): Vajrasenvijay
Publisher: Bherulal Kanaiyalal Religious Trust

View full book text
Previous | Next

Page 553
________________ ५२० ] बृहद्वृत्ति-लधुन्याससंवलिते [पा० १. सू० १३१-१३२.] न्या स०--विरोधिनामद्रव्यागामिति । अत्र गुणादीनामाश्रयो द्रव्यं गृह्यते । न तु वैयाकरणप्रसिद्धमिदं तदित्यादिलक्षणम् । तस्मिस्तु गृह्यमाणे सुखदुःखादीनामपि द्रव्यत्वप्रसङ्गः। छायातपमिति न भवति तयोर्द्रव्यत्वात् । सजातीयैरेवेति असमानजातीयमविरोधि यद्यवयवान्तरमस्य न भवतीत्यर्थः । एतावता विरोधिपदारब्धत्वेन द्वद्वस्य सजातीयारब्धत्वमुक्तम् । रूपरसगन्धस्पर्शाः इत्यत्र रूपादीनामेकस्मिन्नपि नारङ्गादिपदार्थे 5 . सहावस्थानाद् विरोधाभावान्नायं विधिरिति । सुखदुःखाविमौ इत्यत्र सुखदुःखौ शीतोष्णौ उपचाराद् द्रव्ये वर्तेते । बुद्धिसुखदुःखानीति अत्र सुखदुःखे विरोधिनी बुद्धिस्त्वविरोधिनीति अविरोध्यवयवोऽप्यसौ द्वंद्व इति वचनान्न कवद्भावः । समाहारे चेत्यादि अनेकश्च नियमो वाक्यभेदेन समर्थ्यते, सर्वत्राऽपि च प्रत्युदाहरणं व्यवच्छेद्यम् ।। ३. १. १३० ।। अश्ववडवपूर्वापराघरोत्तराः ॥ ३. १. १३१ ॥ अश्ववडवेति पूर्वापरेति अधरोत्तरेति त्रयो द्वद्वा एकार्था वा भवन्ति, स्वैः । अश्वश्च वडवा चाश्ववडवम्, अश्ववडवौ-अश्ववडवेति निर्देशादेवेतरेतरयोगे ह्रस्वत्वं निपात्यते, पूर्वापरम्, पूर्वापरे, अधरोत्तरम् अधरोत्तरे, पशुविकल्पेनैव सिद्धेऽश्ववडवग्रहणं तत्पर्यायनिवृत्त्यर्थम्, हयवडवे । स्वैरित्येव अजाश्ववडवाः न्यायादेव विकल्पे सिद्धे पूर्वापरादिग्रहणं पदान्तरनिवृत्त्यर्थम्-15 तेन पूर्वपश्चिमौ, दक्षिणापरौ, अधरमध्यमौ, उत्तरदक्षिणावित्यत्र विकल्पो न भवति ।। १३१ ।। न्या० स०--अश्ववडव०। अजाश्ववडवा इति अत्रेतरेतर एव अन्यथा अश्ववडवेत्यस्य पशुद्वारो विकल्पः सिद्ध एवातो व्यावृत्त्यर्थं ग्रहणम् । न्यायादेवति समाहारेतरेतरलक्षणात् ।। ३. १. १३१ ॥ 20 पशुव्यञ्जनानाम् ॥ ३. १. १३२ ।। पशूनां व्यञ्जनानां च स्वैर्द्वन्द्व एक एकार्थो वा भवति । गौश्च महिषश्च गोमहिषम् गोमहिषौ, अश्वबलीवर्दम् अश्वबलीवदौं, वृष्णिस्तभम् वृष्णिस्तभौ, महाजोरभ्रम् महाजोरभ्रौ, व्यञ्जन-दधिघृतम्, दधिघृते, शाकसूपम्, शाकसूपौ। अश्वमहिषमित्यत्र तु परत्वात् 'नित्यवरस्य'25 [ ३. १. १४१. ] इति नित्यमेकत्वविधिः। स्वैरित्येव ? गोनरौ, दधिवारिणी, दध्युष्ट्रौ ।। १३२ ।।

Loading...

Page Navigation
1 ... 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650