Book Title: Siddha Hemchandra Shabdanushasan Bruhad Vrutti Part 01
Author(s): Vajrasenvijay
Publisher: Bherulal Kanaiyalal Religious Trust

View full book text
Previous | Next

Page 623
________________ ५६० ] बृहद्वृत्ति-लघुन्याससंवलिते [पा० २. सू० ८७-८८.] किम् ? चन्दनसारः, खदिरसारः, मार्गमतिक्रान्तः अतिमार्गः। घनीति किम् ? अवसायः अवहारः णप्रत्ययोऽयम् । बहुलवचनादनुपसर्गस्यापि अघञ्यपि च भवति दक्षिणापथः, उत्तरापथः क्वचिद्विकल्पः अन्धतमः, अन्धातमः, अन्धतमसम्, अन्धातमसम् । क्वचिद्विषयभेदेन अधीदन्तः, अधीकर्ण , अधीकण्ठः, अधीपादः-एते आधिक्ये, अन्यत्र अधिदन्त इत्यादि भवति । 5 क्वचिदनुत्तरपदेऽपि विकल्पः पूरुषः, पुरुषः, नारकः, नरकः, सादनम्, सदनम्, अतिशायनम्, अतिशयनम् । काशशब्दे च घन्ते विकल्पः-नीकाशः, निकाशः, प्रतीकाशः, प्रतिकाशः, अजन्ते तूत्तरो विधिः ।। ८६ ।। न्या० स०--घञ्युप०। देशानुग्रहो हिण्डः। उत्तरपदाऽधिकारे प्रत्ययग्रहणे प्रत्ययमात्रस्यैव ग्रहणमिति ज्ञापितेऽपि धातोविधीयमानस्य घत्र उपसर्गपरत्वासंभवेन 10 सामर्थ्यात् घान्तस्योत्तरपदस्य ग्रहणं न्याय्यम् । वीतंस इति भूषतसु० नोन्ते वितस्यते घ। अन्धातमसमिति अमत्यन्येनाकृष्यमाणः 'स्कन्द्यमिभ्यां धः' २५१ (उणादि) अन्धं करोति णिज । 'अन्धरण दृष्टयपसंहारे' अस्माद् वाऽच । अन्धं च तत्तमश्च समवान्धात्तमसोऽत् समासान्तः । काशशब्दे चेति । बहुलवचनादेवेति यदि घनि विकल्पः तर्हि उत्तरो नित्यविधिः क्व स्यादित्याह-अजन्ते विति ।। ३. २.८६ ।। 15 नामिनः काशे ॥ ३. २. ८७ ॥ नाम्यन्तस्योपसर्गस्य 'अच्' [५. १. ४६.] इत्यजन्ते काशशब्दे उत्तरपदे परे दीर्घोऽन्तादेशो भवति । निकाशते निकाश्यत इति वा नीकाशः, विकाशते इति वीकाशः, अनूकाशः, प्रतीकाशः। बहुलाधिकारान्निकाश इत्यपि । नामिन इति किम् ? प्रकाशते इति प्रकाशः ।। ८७ ।। 20 दस्ति ॥ ३. २. ८८ ॥ दा इत्येतस्य यस्तकारादिरादेशस्तस्मिन्परे नाम्यन्तस्योपसर्गस्य दीर्घोऽन्तादेशो भवति । नीत्तम्, वीत्तम्, परीत्तम्, परीत्तवान्, परोत्तिमम्, प्रणीत्तिमम् । द इति किम् ? वितीर्णम् । तीति किम् ? सुदत्तम् । नामिन इत्येव ? प्रत्तम् अवत्तम् ।। ८८ ।। 25 न्या० स०--दस्ति । निदीयते स्म दासंज्ञानां चतुर्णामन्यतमात् क्त कृते

Loading...

Page Navigation
1 ... 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650