Book Title: Siddha Hemchandra Shabdanushasan Bruhad Vrutti Part 01
Author(s): Vajrasenvijay
Publisher: Bherulal Kanaiyalal Religious Trust
View full book text ________________
बृहद्वृत्ति-लघुन्याससंवलिते
५६२ ]
[पा० २. सू० ε२. ]
कृते षोडन्निति शब्दान्तरं नकारान्तं राजन् शब्दवन्निपातयन्ति । ततश्च षोडानमिच्छतीति क्यनि, नकारलोपे ईत्वे च षोडीयतीति सिद्ध्यतीति मन्यन्ते । षड्भिः प्रकारैः षोढा, षड्ढा, अत्र धाप्रत्यये षषोऽन्तस्य वोत्वं धकारस्य तु नित्यं ढत्वम् । यत्तु षड्धेति रूपं न तत् धाप्रत्यये किं तु षड् दधाति धयति वेति 'प्रातो डोऽह्वावाम:' [५. १७६.] इति डे कृते स्त्रियामापि च 5 भवति, निपातनस्य चेष्टविषयत्वादत्रोत्वढत्वे न भवतः ।। ६१ ।।
न्या० स० - एकादश० ।
उत्तरपदादिष्विति । प्रदिपदाद्धाप्रभृतिप्रत्ययानां ग्रहः । एकोत्तरा दशेति श्रत्रोत्तरशब्दोऽधिकवचनः । नकारान्तमिति स्वमते तु तकारान्तो निपातः ।। ३. २. ६१ ।।
दिवत्र्यष्टानां द्वाश्रयोऽष्टा प्राक् शतादनशीतिबहु- 10 व्रीहौ ॥। ३. २. ६२ ॥
पञ्चदश ।
द्विष्टिन् इत्येतेषां यथासंख्यं द्वा त्रयस् प्रष्टा इत्येते प्रदेशा प्राक् शतात् संख्यायामुत्तरपदे भवन्ति, 'अनशीतिबहुव्रीहौ' प्रशीति बहुव्रीहिसमासविषयं चोत्तरपदं वर्जयित्वा । द्वाभ्यामधिका दश द्वौ च दश चेति वा द्वादश, एवं द्वाविंशतिः, द्वात्रिंशत्, त्रयोदश, त्रयोविंशतिः, त्रयस्त्रिंशत्, अष्टादश, 15 अष्टाविंशतिः, अष्टात्रिंशत् । द्वित्र्यष्टानामिति किम् ? प्राक्शतादिति किम् ? द्विशतम्, त्रिशतम्, अष्टशतम्, द्विसहस्रम् । त्रिसहस्रम् अष्टसहस्रम्, अनशीतिबहुव्रीहाविति किम् ? द्वयशीतिः, त्र्यशीतिः, द्वौ वा यो वा द्वित्राः, त्रिचतुराः, अष्टनवाः, द्विर्दश द्विदशा, एवं त्रिदशाः । प्राक्शतादित्यवधेः संख्यापरिग्रहादिह न भवति, द्वैमातुरः, त्रैमातुरः, 20 अष्टमातुरः, द्विमुनि व्याकरणस्य, त्रिमुनि व्याकरणस्य ।। ६२ ।।
न्या० स०-- द्वित्र्यष्टानां । संख्यायामुत्तरपदे इति पूर्वपदस्य साक्षादेव निर्देशात् प्राक् शतादित्यवधेरनशीतिपर्युदासादशीतेः संख्यायाः प्रतिषेधात् संख्यारूपस्यैवोत्तरपदस्य ग्रहणम् । विंशतिरिति द्वौ दशतौ मानमस्या: 'विंशत्यादय:' [ ६.४.१७३.] देशदर्थे विम्भावः शतिश्च प्रत्ययः ।। ३. २. ६२ ।।
25
Loading... Page Navigation 1 ... 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650