Book Title: Siddha Hemchandra Shabdanushasan Bruhad Vrutti Part 01
Author(s): Vajrasenvijay
Publisher: Bherulal Kanaiyalal Religious Trust
View full book text ________________
[पा. २. सू० १४४-१४६.] श्रीसिद्धहेमचन्द्रशब्दानुशासने तृतीयोऽध्यायः [ ६११
इत्ययमादेशो भवति वा। सह पुत्रेण सपुत्र आगतः सहपुत्र आगतः, एवं सशिष्यः सहशिष्य आगतः, सह लोम्ना वर्तते सलोमकः सहलोमकः, विद्यमानलोमक इत्यर्थः । अन्यार्थ इति किम् ? सहयुध्वा, सहकृत्वा, सहकारी, सहजः । कथं सहकृत्वा प्रियोऽस्य सहकृत्वप्रियः प्रियः सहकृत्वास्य प्रियसहकृत्वेति ? बहुव्रीहौ यदुत्तरपदं तस्मात्पूर्वः सहशब्दो न भवतीति 5 सादेशो न भवति ।। १४३ ।।
नाम्नि ॥ ३. २. १४४ ॥
योगारम्भाद्वेति निवृत्तम् । अन्यार्थे समासे उत्तरपदे परे सहशब्दस्य सादेशो भवति, नाम्नि संज्ञायां विषये। सहाश्वत्थेन वर्तते-साश्वत्थम्, सपलाशम्, सशिंशपम्, एवंनामानि वनानि, सह रसेन सरसा दूर्वा, । अन्यार्थ10 इत्येव ? सह चरतीति सहचरः कुरण्टकः, सह दीव्यतीति सहदेवः कुरुः, सहदेवा अोषधिः, सह जायते सहजन्या अप्सराः ।। १४४ ।।
न्या० स०-नाम्नि। सह चरतीति सहचरः अच् । 'अव्ययं प्रवृद्धादिभिः' [ ३. १. ४८. ] इति समासः । सहदेवा ओषधिरिति 'लिहादिभ्योऽच्, [ ५. १. ५०. ] सह जायते सहजन्या अप्सरा इति 'भव्यगेयजन्य' [५. १. ७.] इत्यादिना कर्तरि घ्यण् ।15 'न जनवधः' [४. ३. ५४.] । इति वृद्ध्यभावः ॥ ३. २. १४४ ।।
अदृश्याधिके ॥ ३. २. १४५ ॥
अदृश्यं परोक्षम अधिकमधिरूढम, तद्वाचिनोरुत्तरपदयोरन्यार्थे समासे सहशब्दस्य सादेशो भवति । अदृश्य-साग्निः कपोतः, सपिशाचा वात्या, सराक्षसीका विद्युत्, समुशलो व्रीहिकंस: अधिके,-सद्रोणा खारी, समाष:20 कार्षापणः, सकाकणीको माषः। 'सहस्य सोऽन्यार्थे' [३. २. १४३.] इत्यनेनैव सिद्धे नित्यार्थं वचनम् ।। १४५ ॥
. न्या० स०-अदृश्याधिके। व्रीहिकंस इति । कंस इति खार्यादिवत् मानविशेषस्य नाम तत्परिमाणपरिच्छिन्नव्रीहिमध्यगतस्य मुसलस्य आवृतत्वाददृश्यता ।। ३. २. १४५।।
अकालेऽव्ययीभावे ॥ ३. २. १४६ ॥ सहशब्दस्याकालवाचिन्युत्तरपदेऽव्ययीभावसमासे सादेशो भवति ।
25
Loading... Page Navigation 1 ... 642 643 644 645 646 647 648 649 650