Book Title: Siddha Hemchandra Shabdanushasan Bruhad Vrutti Part 01
Author(s): Vajrasenvijay
Publisher: Bherulal Kanaiyalal Religious Trust
View full book text ________________
[पा० २. सू० १५५.]
श्रीसिद्धहेमचन्द्रशब्दानुशासने तृतीयोऽध्यायः
[ ६१५
मह्यां रौति मयूरः, रौतेरच्यन्तलोपो महीशब्दस्य मयूभावः,। मह्यां शेते महिषः । ढः । अत्र पूर्वपदस्य ह्रस्वत्वं शस्य च षत्वम् । पिशितमश्नाति पिशाचः । अत्र पिशितस्य पिशादेशः अश्नातेः शस्य चादेशः । शवानां शयनं श्मशानम्, पूर्वपदस्य श्मादेशः उत्तरपदस्य च शानादेशः। ब्रुवन्तोऽस्यां सीदन्ति विषीदन्ति वृसी। अत्र डट् प्रत्ययः । पूर्वपदस्य वृभावः । ऊर्ध्वं खं 5 विलं वास्य उदूखलम् । उलूखलं वा। अत्र पूर्वपदस्योद्भाव उलूभावश्च उत्तरपदस्य खलादेशः । दिवि द्यौवौंक एषां दिवौकसः । अत्राकारागमः । अश्व इव तिष्ठति अश्वत्थः । कपिरिव तिष्ठति कपयोऽस्मिस्तिष्ठन्ति इति वा कपित्थः, दध्नि तिष्ठति दधित्थः, मह्यां तिष्ठति महित्थः, एषु तिष्ठतेः सकारस्य तकारः, मुहुः स्वनं लाति मुहुर्मुहुलसतीति वा मुसलम् । अत्र मुहुः10 शब्दस्य मुभावः । स्वनशब्दस्य सभावः । पक्षान्तरे लसयोविपर्ययश्च । ऊध्वौं कर्णावस्येत्युलूकः, अत्रोवंशब्दस्योलादेशः कर्णशब्दस्योकादेशश्च । मेहनस्य खं मेहनखं तस्य माला मेखला । अत्र मेहनखे हनस्य मालाशब्दे च माशब्दस्य लोपः । को जीर्यति कुञ्जरः, अत्र कुशब्दस्य मोऽन्तः । आश्वस्य विषमस्ति आशीविषः, अत्राशुशब्दस्याशीभावः । बलं वर्धयति बलीवर्दः, अत्र बलस्ये-15 कारोऽन्तादेशो वर्धधकारस्य च दकारः । मनस ईष्टे मनीषी, अत्र मनसोऽन्त्यस्वरादिलोपः ईशेः शस्य च षः । विलं दारयतीति विडालः, अत्र विलशब्दस्य ललोपः, उत्तरपदस्य डालादेशः । मृदमालीयते, डः, मृणालः ।
__ अत्र मृदो दकारस्य णकारः । असृगालीयते, डः, सृगालः । अत्रदेलोपः । असृगिलति वा सृगालः, अत्रासृज आद्यन्तलोपः । पुरो दाश्यते पुरोडाशः,20 अत्रोत्तरपदादेर्डत्वम् । अश्वस्याम्बा वडवा। अत्राश्वस्याशो लोपः ड चान्तः । अम्बाशब्दे च मो लोपः । शकस्यान्धुः शकन्धुः । अत्र पूर्वपदान्तस्योत्तरपदादेर्वा लोपः । एवं कर्कन्धुः, अटतीत्यच अटा, कुलानामटा कुलटा । अव अवाक् अटन्त्यस्मिन्निति बाहुलकात् 'पुनाम्नि' [५. ३. १३०.] इति घः, अवटः । हिनस्तीति सिंहः, अत्र सकारहकारस्योविपर्ययः । कृतकेन25 शलति कृकलाशः, अत्र तकारस्य लोपः, शकारलकारयोस्तु विपर्ययः। भ्रमन् रौति ड: भ्रमरः, अत्र तलोपः। एवंप्रकाराः शिष्टः प्रयुक्ताः पृषोदरादयः ।
Loading... Page Navigation 1 ... 646 647 648 649 650