Book Title: Siddha Hemchandra Shabdanushasan Bruhad Vrutti Part 01
Author(s): Vajrasenvijay
Publisher: Bherulal Kanaiyalal Religious Trust

View full book text
Previous | Next

Page 649
________________ ६१६ ] बृहद्वृत्ति-लवुन्याससंवलिते [पा० २. सू० १५६.] मयूरमहिपादीनामुणादौ व्युत्पादितानामपीह व्युत्पादनमनेकधा शब्दव्युत्पत्तिज्ञापनार्थम् । बहुवचनमाकृतिगणार्थम् । तेन मुहूर्तमारग्वधोऽश्वत्थामनिर्लयनीत्यादयोऽपि द्रष्टव्याः। वर्णागमो वर्णविपर्ययश्च द्वौ चापरो वर्णविकारनाशौ । धातोः तदर्थातिशयेन योगस्तदुच्यते पञ्चविधं निरुक्तम् ।। १५५ ।। न्या० स०--पृषोदरा०। पृषोद्वानमिति '4 ओवै शोषणे' उद्वायत इति उद्वानं 5 पृषत उद्वानं पृषोद्वानम् । पृषोद्धारमिति घृग् णिगि अच्, उद्पूर्वस्य धृगो णिगि अचि। यदा उद्धरमिति तदा धृगोऽरिणगन्तस्य । प्राढ्य इत्यत्र 'स्थादिभ्यः कः' [ ५. ३. ८२. ] । आशीविष इति यदापि आश्यतीत्यचि ततो 'गौरादिभ्यो' [ २. ४. १६. ] (इति) ङी:, आश्यां दंष्ट्रायां विषमस्तीति अथवा आशिषि दंष्ट्रायां विषमस्येति तदाऽप्यनेन निपातनम् । तदर्थाऽतिशयेनेति स प्रसिद्धोऽर्थस्तदर्थः शब्दलक्षणस्तस्यातिशयो माधुर्यादिस्तेन 10 योगः यथा मयूर इति, अत्र हि रौते रवणार्थस्यातिशयेन योगः। कृकलाश इति 'वा बलादि' इति णः । कृकं लासयतीति ये व्युत्पादयन्ति तन्मते दन्त्यसकारः । महुरियति स्म 'गत्यर्थ' [ ५. १. ११. ] इति क्तः प्रत्ययः । पारात् वध्यते 'स्थादिभ्यः कः' [ ५. ३. ८२. ] तस्य गः, अश्व इव तिष्ठतीति मन् निलीयतेऽस्यां अनट् ।। ३. २. १५५ ।। वावाप्योस्तनिकोधाग्नहोर्वपी॥ ३. २. १५६ ॥ 15 अवशब्दस्योपसर्गस्य तनिक्रीणात्योः परयोरपिशब्दस्य च धाग्नहोः परयोर्यथासंख्यं व पि इत्येतावादेशौ वा भवतः । वतंसः, अवतंसः, वक्रयः, अवक्रयः, पिहितम्, अपिहितम्, पिधानम्, अपिधानम्, पिदधाति, अपिदधाति, पिनद्धम्, अपिनद्धम्, । धातृनियमं नेच्छन्त्येके । पृषोदरादिप्रपञ्च एषः तेन शिष्टप्रयोगोऽनुसरणीयः ।। १५६ ।। 20 इत्याचार्यश्रीहेमचन्द्रविरचितायां सिद्धहेमचन्द्राभिधानस्वोपज्ञशब्दानुशासनबृहद्वृत्तौ तृतीयस्याध्यायस्य द्वितीयः पादः समाप्तः ।। श्रीमद्वल्लभराजस्य प्रतापः कोऽपि दुःसहः । प्रसरन् वैरिभूपेषु दीर्घनिद्रामकल्पयत् ।। न्या० स०--वावाप्यो। अथ पृषोदरादित्वादेवाऽवाप्योः पाक्षिके अकारलोपे25 वतंस इत्यादि सिध्यत्येव किमर्थोऽयं योग इत्याह-पृषोदरादीति । शिष्टा उक्तरूपास्तर्यः प्रयुज्यते तदनुसरणादन्यदपि सर्वं सिद्धम् ।। ३. २. १५६ ।। 卐 इत्याचार्यश्रीहेम० लघुन्यासे तृतीयस्याध्यायस्य द्वितीयः पादः समाप्त:

Loading...

Page Navigation
1 ... 647 648 649 650