Book Title: Siddha Hemchandra Shabdanushasan Bruhad Vrutti Part 01
Author(s): Vajrasenvijay
Publisher: Bherulal Kanaiyalal Religious Trust

View full book text
Previous | Next

Page 642
________________ [पा० २. सू० १३५-१३८.] श्रीसिद्धहेमचन्द्रशब्दानुशासने तृतीयोऽध्यायः [ ६०६ 10 न्या० स०--काक्ष०। कापथमिति पथः संख्येति नपुसकत्वं, बहुव्रीही त्वाश्रयलिङ्गता। एवं कापथ इति अत्र पुस्त्वमित्यमरः । गौडश्च यदाह 'व्यध्वौ विपथकापथौ' स्वमते तु नपुंसकत्वमेव भवति । कुत्सितः पथः कुपथ इति भवति न तु कुपथम् । । ३. २. १३४ ।। पुरुषे वा ॥ ३. २. १३५ ॥ कुशब्दस्य पुरुषशब्दे उत्तरपदे कादेशो भवति वा। कुत्सितः पुरुषः कापुरुषः, कुपुरुषः, कुत्सिताः पुरुषा अस्मिन् कापुरुषो ग्रामः, कुपुरुषो ग्रामः । अनीषदर्थे विकल्पोऽयम्, ईषदर्थे तु परत्वादुत्तरेण नित्यमेव, तत्रापि विकल्प एवेति कश्चित्,-ईषत्पुरुषः, कापुरुषः, कुपुरुषः ॥ १३५ ।। अल्पे ॥ ३. २. १३६ ॥ ईषदर्थे वर्तमानस्य कुशब्दस्योत्तरपदे परे कादेशो भवति । ईषन्मधुरं कामधुरं कालवणम् । स्वरादावपि परत्वादीषदर्थे कादेश एव भवति, ईषदम्लम्, काम्लम्, एवं काच्छम् ।। १३६ ।। न्या० स०--अल्पे। स्वरादावपि इति न 'कोः कत् तत्पुरुषे' [ ३. २. १२०. ] इति कदादेश इत्यर्थः ।। ३. २. १३६ ॥ काकवी वोष्णे ॥ ३. २. १३७ ॥ कुशब्दस्योष्णशब्दे उत्तरपदे का कव इत्येतावादेशौ वा भवतः । ईषत्कुत्सितं वा उष्णम् कोष्णम्, कवोष्णम्, ईषत् कुत्सितं वा उष्णमत्र कोष्णः, कवोष्णो देशः, पक्षे यथाप्राप्तम् इति-तत्पुरुषे कदुष्णम् । बहुव्रीहौ तु कदादेशो न भवति, कूष्णो देशः । अन्यस्त्वग्नावपीच्छति, काग्निः,20 कवाग्निः, कदग्निः ।। १३७ ।। कृत्येऽवश्यमो लुक ॥ ३. २. १३८ ॥ अवश्यम्शब्दस्य कृत्यप्रत्ययान्ते उत्तरपदे लुक् अन्तादेशो भवति । अवश्यकार्यम्, अवश्यस्तुत्यम्, अवश्यदेयम्, अवश्यकर्तव्यम्, अवश्यकरणीयम् । कृत्य इति किम् ? अवश्यंलावकः ।। १३८ ।। 25 न्या० स०--कृत्ये०। 'अव्ययं प्रवृद्धादिभिः' [ ३. १. ४८. ] 'मयूरव्यंसक' [ ३. १. ११६ ] इत्यादिना वा सर्वत्राऽत्र समासः ।। ३. २. १३८ ।। 15

Loading...

Page Navigation
1 ... 640 641 642 643 644 645 646 647 648 649 650