Book Title: Siddha Hemchandra Shabdanushasan Bruhad Vrutti Part 01
Author(s): Vajrasenvijay
Publisher: Bherulal Kanaiyalal Religious Trust

View full book text
Previous | Next

Page 645
________________ बृहद्वृत्ति - लघुन्याससंवलिते [ पा० २. सू० १४७ - १४६.] ब्रह्मणः संपत् सब्रह्म साधूनाम्, एवं सवृत्तं सुविहितानाम्, सक्षत्रं यदूनाम् । संपत्तावव्ययीभावः । युगपच्चक्रेण चक्राणि वा धेहि सचक्रं धेहि, एवं सधुरं प्राजः । यौगपद्येऽव्ययीभावः - तृणैः सह सतृणमभ्यवहरति, एवं समूलघातं हन्ति । साकल्येऽव्ययीभावः । षड्जीवनिकामन्तमवसानं कृत्वाधीते सषड्जीवनिकमधीते श्रावकः, एवं सलोकबिन्दुसारमधीते पूर्वधरः । ग्रन्त इत्यव्ययी - S भावः । काल इति किम् ? सहपूर्वा शेते, सहापरात भुङ्क्ते । श्रयमपि साकल्येऽव्ययीभावः । अव्ययीभाव इति किम् ? सहयुध्वा ।। १४६ ।। ६१२ ] न्या० स०—– अकाले० । समूलघातमिति श्रत्र मूलानां साकल्यं समूलं हननं 'हनश्व समूलात्' [ ५. ४. ६३ ] गम् । षड़जीवनिकामिति षट् संख्या जीवाः तान्नियतं कायति डः, अथवा जीव्यतेऽनयाऽनटि स्वार्थे के षण्णां प्राणिनां जीवनिका षट्जीवनिका 10 ।। ३. २. १४६ ॥ ग्रन्थान्ते ॥ ३. २. १४७ ।। ग्रन्थस्यान्तो ग्रन्थान्तः, तद्वाचिन्युत्तरपदेऽव्ययीभावे समासे सहशब्दस्य सादेशो भवति । कलामन्तं कृत्वा सकलं ज्यौतिषमधीते, एवं सकाष्ठम्, समुहूर्तम् । कलादिशब्दाः कालविशेषवाचिनोऽपि तत्सहचारिषु ग्रन्थेषु वर्तन्त 15 इति ग्रन्थान्तवाचित्वमुत्तरपदस्य । अन्त इत्यव्ययीभावः कालार्थ आरम्भः ।। १४७ ।। नाशिष्यगोवत्सहले ॥। ३. २. १४८ ॥ आशिषि गम्यमानायां गवादिवर्जित उत्तरपदे परे सहशब्दस्य सादेशो स्वस्ति गुरवे सहशिष्याय, भद्रं सह -20 सपुत्रः सहपुत्र आगतः । अगोवत्सहल सहगवे, सवत्साय, सहवत्साय, सहलाय, न भवति । स्वस्ति राज्ञे सहराष्ट्राय संघायाचार्याय । आशिषीति किम् ? इति किम् ? स्वस्ति भवते सगवे, सहहलाय ।। १४८ ।। समानस्य धर्मादिषु ॥। ३. २. १४६ ॥ समानशब्दस्य धर्मादिषूत्तरपदेषु सादेशो भवति । समानो धर्मोऽस्य 25 सधर्मा, समानो वा धर्मः सधर्मः, समाना जातिरस्य सजातीयः, समानं नामास्य सनामा, समानं नाम सनाम । धर्म, जातीय, नामन्, गोत्र, रूप,

Loading...

Page Navigation
1 ... 643 644 645 646 647 648 649 650