Book Title: Siddha Hemchandra Shabdanushasan Bruhad Vrutti Part 01
Author(s): Vajrasenvijay
Publisher: Bherulal Kanaiyalal Religious Trust
View full book text ________________
[ पा० २. सू० १०२ - १०४.] श्रीसिद्धहेमचन्द्रशब्दानुशासने तृतीयोऽध्यायः [ ५६७
इत्यादिना चेञ: ष्यादेशे हास्तिशीर्ष्या, एवं पैलुशीर्ष्या । अत्र ष्यशीर्षादेशयोः स्थान्विद्भावात् शीर्षन्नादेशः स्यात् । शिरस इति चादेशेन संबध्यते न प्रत्ययेन तेन हास्तिशीषिरित्यादौ समाससंबन्धिन्यपि तद्धिते उत्तरसूत्रेण शीर्षादेशो भवति ।। १०१ ।।
न्या० स० -- शिरसः ० ।
स्थानिवद्भावादिति इञ् प्रत्ययस्तदादेशोऽपि प्रत्यय 5 इत्येवंरूपं स्थानित्वं दृश्यं न त्वित्रः स्वरूपेण तस्येवरूपत्वात् । शीर्षादेशस्य तु स्वरूपेण वर्णसमुदायस्य वर्णविधित्वाभावात् ।। ३. २. १०१ ।।
केशे वा ॥ ३.२. १०२ ॥
शिरसः केशविषये यप्रत्यये परे शीर्षन्नादेशो वा भवति । शिरसि भवाः शीर्षण्याः केशाः, शिरस्याः केशाः केचित्तु इल्वला मृगशीर्षस्य 10 शिरस्यास्तारकाः स्मृताः इति प्रयोगदर्शनात्, केशादन्यत्रापि विकल्पमिच्छन्ति, शाखादियप्रत्यये च शीर्षन्निति नेच्छन्त्येव । शिरसस्तुल्यः शिरस्यः, शाखादित्वाद्यः ।। १०२ ।।
शीर्षः स्वरे तद्धिते ॥ ३. २. १०३ ॥
शिरस् शब्दस्य स्वरादौ तद्धिते परे शीर्ष इत्ययमादेशो भवति 115 हस्तिशिरसोऽपत्य हास्तिशीर्षिः, एवं स्थौलशीर्षिः, पैलुशीर्षिः, मृगशिरसा चन्द्रयुक्तेन युक्ता मार्गशीर्षी पौर्णमासी, स्थूलशिरस इदं स्थौलशीर्षम्, शिरसि कृतं शैर्षम्, शिरसा तरति शीर्षिकः । स्वर इति किम् ? शिरस्कल्पः । तद्धित इति किम् ? शिरसा, स्थूलशिरसमाचष्टे स्थूलशिरयति । कथमत्वला मृगशीर्षस्येति ? शीर्षशब्दः प्रकृत्यन्तरमस्ति । शीर्षच्छेद्यं परिच्छिद्येति, - अनेनैव च सिद्धे उक्तविषये शिरसः प्रयोगनिवृत्यर्थं वचनम् ।। १०३ ।।
-20
न्या० स० -- शीर्षः स्वरे० । शीर्षच्छेद्यमिति शीर्षच्छेदमर्हति 'शीर्षच्छेदाद्यो वा' [ ६. ४. १८४. ] यप्रत्ययः ।। ३ २ १०३ ।।
उदकस्योद' पेषंधिवासवाहने । ३. २. १०४ ॥
उदकशब्दस्य पेषमादिषूत्तरपदेषु उद इत्ययमादेशो भवति । उदकेन 25
Loading... Page Navigation 1 ... 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650